SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ (३०) ३ - भीमसेनः कस्यचिद् भीमसेनस्य पाणिनीयधातुपाठेन सह कश्चिन्महत्त्वपूर्णः संबन्ध इति विविधग्रन्थकारवचनैः सुस्पष्टं विज्ञायते । तथाहि१ – १४६६तमे वैक्रमाब्दे क्रियारत्नसमुच्चयस्य लेखक : श्रीगण - रत्नसूरिराह -- - श्र, श्रदि, तप, बदि, मृषयः परस्मैपदिन इति भीमसेनीयाः । क्रियारत्न० पृष्ठ २८४ । २ - सर्वानन्दः (सं० १२१५) स्वीयेऽमरटीका सर्वस्वे १।१।७ व्याख्यान एवमाह - तर्ब पर्ब बर्ब कर्ब खर्ब गर्ब मर्ब सर्ब चर्ब गतौ इत्ययमपि भूवादौ भीमसेनेन पवर्गान्तप्रकरणे पठितः ।' भाग १, पृष्ठ ८ ४ - सर्वानन्दात् प्राचीनो मैत्रेयो ( सं० १९६५) धातुप्रदीपादौ भीमं स्मरति - बहुशोऽमून् यथा भीमः प्रोक्तवांस्तद्वदागमात् । ४ -- मैत्रेयादपि बहुप्राचीन उमास्वातिभाष्यव्याख्याता सिद्धसेनगणी लिलेख - भीमसेनात् परतोऽन्यैर्वैयाकरणैरर्थद्वयेऽपठितोऽपि पृष्ठ २६४। ५ - भट्टोजिदीक्षितनागेशभट्टादयोऽपि धात्वर्थंनिर्देशो भीमसेनीय इत्याचक्षत इत्युक्तं पुरस्तात् (पृष्ठ १४ ) । ६ – लवपुरस्थदयानन्द महाविद्यालयान्तर्गते लालचन्दपुस्तकालये भीमसेनीयधातुपाठस्यैको हस्तलेख आसीत् । एतैः प्रमाणैर्भीमसेनस्य धातुपाठेन सह प्रासीत् कश्चित् सम्बन्ध इति सुव्यक्तं भवति । १. टीकासर्वस्वे इमे. धातवः अर्व पर्व इत्येवमन्तस्थान्ताः मुद्रिता । तत्प्रामादिकं मुद्रणमिति सर्वानन्दवचनादेव स्पष्टम् । २. अस्यैका प्रतिलिपिरस्मत्सकाशेऽपि विद्यते । लालचन्दपुस्तकालयस्था ग्रन्थराशिः सम्प्रति होशियारपुरस्थे साध्वाश्रमे वर्तते ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy