________________
(३१)
कालः-भीमसेनोऽयं कदा कं च प्रदेशं स्वजनुषालंचकारेति न कथमपि विज्ञायते। भीमसेनस्य यावन्तो निर्देशा विविधग्रन्थेषपलभ्यन्ते, तेषु सिद्धसेनगणिनो निर्देशः प्राचीनतमः । सिद्धसेनगणिनश्च वैक्रमाब्दस्य सप्तमी शती काल इत्येक ऐतिह्यविद प्रातिष्ठन्ते । भीमसेनश्चेतोऽपि भूयान प्राचीनः । इयं हि तस्यावरासीमा । केचनेमं पाण्डुपुत्रं वृकोदरं मन्यन्ते । तदयुक्तमिति पुरा प्रदिष्टम् (पृष्ठ १५)। ___ धातुपाठेनः सह संबन्धः-भीमसेनस्य ये निर्देशाः प्राचीनग्रन्थेषपलभ्यन्ते, तैरेतावत् स्पष्टमवगम्यते यदस्ति भीमसेनस्य पाणिनीयधातुपाठेन सह कश्चिन्महीयान् संबन्धः। भीमसेननाम्ना निर्दिष्टा यत्र तत्र संग्रहालयेषुपलभ्यमानाः केचन धातुपाठकोशा अप्यस्य संबन्धस्य प्रज्ञापकाः । परं धातुपाठेन सह तस्य कीदृशः सम्बन्ध इत्यत्र विवदन्ते वैयाकरणाः । पाणिनीयधातूनामर्थनिर्देशको भीमसेन इत्येके ग्रन्थकारा आहः । मतमिदं प्रमाणविरहितमिति पूर्वस्माभिः सम्यगुपपादितम् (पृष्ठ ६-१३)।
धातुवृत्तिकारः-वयं त्वनुमिनुमो यदयं भीमसेनः पाणिनीयधातुपाठस्य वृत्तिकार इति । अस्यानुमानस्योपोबलके एते प्रमाणे स्तः
१-कविकल्पद्रुमटीकायां दुर्गादास पाहस्तम्भ इह क्रियानिरोध इति भीमसेनः । पृष्ठ १७२ ।
स्तम्भ स्तम्भे इति सौत्रो धातः। न त्वयं क्वचिद धातपाठे पठितः । धातुवृत्तिकाराः प्रसङ्गात् सौत्रानपि धातून् स्ववृत्तिषु व्याख्ययन्ति । अतोऽवगम्यते, स्तम्भु-धातोर्यः स्तम्भार्थस्तस्य क्रियानिरोधरूपं व्याख्यानं भीमसेनेन स्वधातुवृत्तावेव विवृतं स्यात्, नह्यन्यत्र व्याख्यानमिदं सम्भवति ।
२–दैवव्याख्याता कृष्णलीलाशुकमुनिराहक्षप प्रेरणे । भीमसेनेन कथादिष्वपठितोऽप्यं 'बहुलमेतन्निदर्शनम्' इत्युदाहरणत्वेन धातुवृत्तौ पठ्यते । पृष्ठ ६५ ।
अयमेव पाठः स्वल्पभेदेन देवराजीये निघण्टुव्याख्यानेऽपि द्विरुपलभ्यते । पृष्ठ ४३,१०६ ।
यदि दैवव्याख्याने 'धातुवृत्तौ पठ्यते' इत्यस्य कर्ता भीमसेन एवा