SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ भिप्रेतः स्यात् (अन्यस्यानिर्देशात्), तहि भीमसेनेन काचिद् धातुवृत्तिविरचिता इति स्पष्टमेव । यद्यत्र 'धातुवृत्तौ पठ्यते' इत्यस्यान्य एव कर्ताऽभिप्रेतः स्यात्तदापि पूर्वप्रमाणेन भीमसेनस्य धातुवृत्तिकारत्वं स्पष्टमेव। ४- अज्ञातनामा ___ कस्यचिदज्ञातनाम्नो वृत्तिकारस्य तदीयाया धातुवृत्तेश्च पाठाः क्षीरतरङ्गिणीपुरुषकारनिघण्टुव्याख्यानादिषूपलभ्यन्ते । तथाहि-- १-क्षीरस्वामी श्रथि शैथिल्ये इति धातुसूत्रव्याख्याने कंचिद् वृत्तिकारं सस्मार। ... शश्रन्थे ....'इदित्त्वादनुनासिकलोपाभावः । श्रेथे इति तूदाहरन् वृत्तिकृद् भ्रान्तः । क्षीरत० १॥२६॥ - वृत्तिकृद् धातुवृत्तिकार:-क्षीरस्वामिना स्मृतो वृत्तिकृद् धातुवृत्तिकारो द्रष्टव्यः । तदुक्तं क्षीरपाठमुद्धरता सायणेन____ अत्र तरङ्गिणी-इदित्त्वादनुनासिकलोपाभावात् श्रेथे ग्रेथे इत्युदाहरन् वृत्तिकारो भ्रान्त इति । अत्र वृत्तिकारो धातुवृत्तिकृद् उच्यते । धातुवृत्ति पृष्ठ ४६ । ___२–पूर्व भीमसेनप्रसङ्ग उदाहृते पुरुषकारवचने काचिद् धातुवृत्तिः स्मर्यते। ३-देवराजः स्वीये निघण्टुव्याख्याने कांचिद् धातुवृत्ति निर्दिशति । तथाहि क-अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु । म्रक्षणं सेचनमिति तद्वृत्ति ।१।१॥३॥ ख-क्षप प्रेरणे क्षपि क्षान्त्याम् इति कथादिष []पठितोऽपि बहुलमेतन्निवर्शनमित्यस्योदाहरणत्वेन धातुवृत्तौ पठ्यते । १।७।२॥ २।१२।३७।। देवराजस्य द्वितीयः पाठो भीमसेनप्रसङ्ग उद्धृतेन पुरुषकारपाठेन सह संवदति (द्र० पूर्व पृष्ठ ३१ पं० २७-२८) । तेनैतदपि सम्भवति, यद्देवराजः पुरुषकारादेवेमं पाठमुदाजहारेति ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy