________________
(३३)
यद्युपरितनेषु प्रमाणेषु स्मृतो धातुवृत्तिकारो धातुवृत्तिश्च भीमसेनस्तदीया धातुवृत्तिर्वा न स्यात्तर्हि क्षीरस्वामिनः पूर्ववर्तिना केनचिद् विदुषा काचिद् धातुवृत्तिर्विहिता इति निःसंशयं शक्यते वक्तुम् ।
५ - क्षीरस्वामी ( ११०० - ११५० वि० )
क्षीरस्वामिनाम्ना शब्दशास्त्रनिष्णातेन क्षीरतरर्राङ्गण्यभिधेया एका धातुवृत्तिविरचिता । इयमुपलभ्यमानासु सर्वासु धातुवृत्तिषु प्राचीनतमा महत्त्वपूर्णा च वर्तते । एतस्या एकं संस्करणं जर्मनविदुषा लिबिशेन १९८७ वैक्रमाब्दे (सन् १९३०) रोमनाक्षरेषु प्रकाशितम् । परिचयः
वंश: - क्षीरस्वामिना क्षीरतरङ्गिण्याममरकोशोद्घाटने च न कश्चित् स्वकीयः परिचयो वृत्तान्तो वा लिखितः । अतोऽस्य विदुषो वृत्तान्तोऽन्धकूप एव निपतितो वर्तते ।
क्षीरतरङ्गिण्या स्वाद्यदाद्योरन्ते 'भट्टेश्वरस्वामिपुत्र क्षीरस्वाम्युत्प्रेक्षितायां इति पाठदर्शनात् क्षीरस्वामिनः पितुर्नाम भट्ट ईश्वरस्वामी प्रासीदिति विज्ञायते ।
शाखा - क्षीरस्वामिना यज - धातुव्याख्याने ( १७२६) यजु: काठकम् इत्युक्तम् । एकशतभेदभिन्ने यजुषि काठकस्यैव नामोल्लेखः क्षीरस्वामिनस्तच्छाखाध्येतृत्वं सूचयति ।
.......
1
देशः—क्षीरस्वामी कं देशं स्वजनुषालंचकारेति न सम्यग् विज्ञायते । क्षीरतरङ्गिण्या अमरव्याख्यानस्य चादौ वाग्देव्या प्रशंसनात्, ग्रन्थान्ते दृश्यमानाभ्यां श्लोकाभ्यां ' चास्य कश्मीरजत्वं प्रतीयते । क्षीरस्वामी कठशाखाध्यायीत्यनुमितं पुरस्तात् । कठब्राह्मणाश्च कश्मीरेष्वेवोपलभ्यन्ते इत्यप्यस्य कश्मीरजत्वं द्रढयति ।
कालः - क्षीरस्वामी कस्मिन् काले बभूव इति न शक्यते निश्चितं वक्तुम् । तथापि —
१. कश्मीरमण्डलभुवं जयसिंहनाम्नि विश्वम्भरापरिवृढे दृढदीर्घदोष्णि । शासत्यमात्यवरसूनुरिमां लिलेख भक्त्या स्वयं द्रविणवानपि धातुपाठम् ।।