SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ (३४) १-एकः खलु क्षीराभिधानः कश्चिच्छाब्दिक: कल्हणेन राज- ' तरङ्गिण्यां स्मर्यते देशान्तरादागमय्याथ व्याचक्षाणान् क्ष्मापतिः। प्रावर्तयद्विच्छिन्नं महाभाष्यं स्वमण्डले ॥ क्षीराभिधानाच्छन्दविद्योपाध्यायात् सम्भृतश्रुतः। बुधैः सह ययौ वृद्धि स जयापीडपण्डितः ॥४॥४८८, ४८६ ॥ कश्मीराधिपतेर्जयापीडस्य राज्यकाल, ८०८ वैक्रमाब्दात् ८३६ • वैक्रमाब्दं यावदातिष्ठन्त ऐतिह्यविदः । क्षीरस्वामी तु क्षीरतरङ्गिण्याममरकोशटीकायां च श्रीभोजं . तदीयं सरस्वतीकण्ठाभरणं चासंकृदुदाजहार । तस्मादयं क्षीरस्वामी कल्हणस्मृतात् क्षीराभिधानाद् विदुषोऽन्य इति विस्पष्टम् । २- गणरत्नमहोदधौ स्मृतः- सप्तनवत्युत्तरैकादशशत्यां विरचिते गणरत्नमहोदधौ वर्धमानो द्विः क्षीरस्वामिनं सस्मार । तथाहि क- ज्योतींषि ग्रहनक्षत्रादीनि वेत्ति ज्योतिषिकः इति वामनक्षीरस्वामिनौ । ४।३०३ पृष्ठ १८३ ॥ पाठान्तरम्- ज्योतींषि ग्रहादीनधिकृत्य कृतो ग्रन्थो,ज्योतिषः। ज्योतिषं वेद ज्योतिषिकः । द्र० पृष्ठ १८३ टि० २। अनयोः पाठान्तरे न्यस्तः पाठः क्षीरस्वामिनोऽमरकोशव्याख्यानेन (२।८।१४) सहाक्षरशः संवदति । ख-क्षीरस्वामिना मार्ष मारिष इत्यपि, यथा पर्षत् परिषदिति टीकायां विवृतम् । ७।४३० पृष्ठ २३८॥ पाठान्तरम्-मर्षणात् सहनात् मार्षोऽपि । यथा परिषत्[पर्षत् ] । द्र० पृष्ठ २३८ टि०२। अनयोरपि पाठान्तरे न्यस्तः पाठः क्षीरस्वामिनोऽमरटीकायां मारिष-पदव्याख्याने (१।६।१४) उपलभ्यते। . एतेन इदमपि स्पष्टं, यद् गणरत्नमहोदधेर्योरोपीयं तदाधारण मुद्रितं भारतीयं चोभे अपि संस्करणे भ्रष्टपाठबहुले स्तः । इयं क्षीरस्वामिनोऽवरा सीमा।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy