________________
(३५)
३ हेमचन्द्राचार्यो हैमाभिधानस्य चिन्तामणि व्याख्यायां क्षीरस्वामिनं स्मरति । तद्यथा
(क) क्षीरस्वामी तु- 'काष्ठमुपलक्षणम्, काष्ठाऽश्मादिमयी जलधारिणी दोणी' इतिव्याचख्यौ । ३।५४१; पृष्ठ ३५० ।
(ख) “हितजलापभ्रंशो हिज्जलः' इति क्षीरस्वामी । ४।२११; पृष्ठ ४६१।
इमे उभे अप्युद्धरणे क्रमशः क्षीरस्वामिनोऽमरकोशस्य १।९।११; २।४।६१ टीकायामुपलभ्यते । एतेन क्षीरस्वामी हेमचन्द्राचार्यात् प्राचीन इति स्पष्टं प्रतीयते । हेमचन्द्राचार्यस्य कालस्तु वै० सं० ११४५ - १२३६ पर्यन्तमस्माभिः स्वीये 'सं० व्या० शा० का इतिहास' नाम्निग्रन्थे निर्धारितम् । ___ क्षीरतरङ्गिण्यामनेकत्र कांचिदुणादिवृत्ति संकेतयति । तत्र २॥५॥ पृष्ठ १७७,४।१। पृष्ठ २०७ (एवमन्यत्रापि)। अत्र प्रथम स्थाने 'उणादौ दोहदोऽभिलाषविशेष' इति क्षीरतरङ्गिण्यां पाठो हैमोणादिवृत्तौ २४४तमस्य सूत्रस्यव्याख्यायामुपलभ्यते । द्वितीय स्थाने दिवेडिव' इत्यूणादिसूत्रमुदध्रियते । अयं सूत्रपाठ हैमोणादावेव ९४६ तमायां संख्यायामुपलभ्यते, नान्यस्मिन् कस्मिंश्चिदुणादि पाठे।
अनेनेदं सम्भाव्यते यत् क्षीरस्वामिहेमचन्द्राचायौं समकालिकावास्ताम । तत्र क्षीरस्वामिना क्षीरतरङ्गिण्या रचना हेमचन्द्राचार्यस्योणादिविवृत्तिरचनातोऽनन्तरं कृता । हेमचन्द्राचार्येण अभिधानचिन्तामणिटीका क्षीरस्वामिविरचिताद् अमरकोशोद्घाटनानन्तरं विरचिता। ४-क्षीरतरङ्गिण्याः कोशान्ते पद्यमिदं पठ्यतेकश्मीरभुवमण्डलं जयसिंहनाम्नि,
विश्वम्भरापरिवृढे दृढदीर्घदोष्णि । शासत्यमात्यवरसूनुरिमां लिलेख
भक्त्या द्रविणवानपि धातुपाठम् ॥ . कश्मीराधिपतेर्जयसिंहस्य कस्यचिद् आमात्यस्य सूनुनेयं क्षीरतरङ्गिणी प्रतिलिपिकृतेत्यस्याभिप्रायः। .