SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ (३६) अत्र स्मृतस्य जयसिंहस्य नृपते राज्यकालः ११८५ वैक्रमाब्दाद् ११६५ वैक्रमाब्दपर्यन्तमासीत् । एतस्मिन्नन्तरे क्षीरतरङ्गिण्याः प्रतिलिपिकरणादितः प्राचीनः क्षीरस्वामीति सुव्यक्तम् । ५ – मैत्रेयरक्षितः ११४० वैक्रमाब्दात् १९६५ वैक्रमाब्दं यावत् स्वकीयं धातुप्रदीपं विरचयामासेत्यस्माभिर्व्याकरणैति प्रतिपादितम्' । मैत्रेयः धातुप्रदीपेऽनेकत्र केचिद् एके प्रपरे इत्यादिभिः शब्दैः क्षीरस्वामिमतं निर्दिशति । तथाहि । केचित्तु श्रानृजे इति प्रत्यु - दाहरन्ति । पृष्ठ २० । अत्र १।११० सूत्रव्याख्याने 'ऋञ्जते श्रानृञ्जे' इत्युदाहृतं क्षीरस्वामिना । अत्रस्थाऽस्मदीया टिप्पण्यपि द्रष्टव्या ( पृ० ३८, टि० ६ ) - तुहिर् उहिर् इत्येके । पृ० ५२ । ख - द्रष्टव्या क्षीरतरङ्गिणी १।४८७ ( पृ० १०४ ) | उ - श्रपरे तु वावृतु वरणे इति परस्मिन् वाग्रहणं संबध्य धातुमेकार्थमनेकाचं मन्यन्ते वावृतु वरणे इति वावृत्यते । ततो वावृत्यमाना सा रामशालां न्यविक्षतेति । पृ० ९३ । क - ऋञ्जते, ऋञ्जाञ्चक्रे अत्र ४।४९ सूत्रस्था क्षीरतरङ्गिणी ( पृ० २१७) द्रष्टव्या । - प्रीतिचलनयोरित्येके । पृ० १०३ । घ इह ५।१५ सूत्रस्था क्षीरतरङ्गिणी ( पृ० २३६) द्रष्टव्या । ङ–प्वादयस्त्वागणान्ताः । तेषामपि समाप्त्यर्थमत्र वृत्करण - मित्येके । पृ० १२७ । अत्र | ३३ सूत्रस्य क्षीरतरङ्गिणी ( पृ० २८३) अवलोकनीया । च -भासार्था इत्येके । भासार्था दीप्त्यर्थाः । पृ० १४४ । I द्रष्टव्याऽत्र १०।१९७ सूत्रस्था क्षीरतरङ्गिणी, तत्रस्थाऽस्मट्टिप्पणी च ( पृ० ३१७, टि० ३ ) । एतैः कतिपयैरुद्धरणैरेतद्व्यक्तं भवति यत् क्षीरस्वामी मैत्रेयरक्षि १. द्र० भाग २, पृष्ठ १०१; सं० २०४१ |
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy