________________
(३७)
तात् प्राचीनः । एवं च कृत्वा १९६५ वैत्रमाब्दात् प्राचीनः क्षीरस्वामी इति तु निश्चितमेव ।
क्षीरस्वामिनोऽन्ये ग्रन्थाः - योऽयं जाता विश्वसृजः क्रमेण मुनिभिः इत्यादिश्लोकः क्षीरतरङ्गिण्या अमरोद्घाटनस्य चादौ समानरूपेण पठ्यते । तस्मिन् षड्वृत्तीनामुल्लेखः श्रूयते । ताश्चेमाः षड्वृत्तयः
१. अमरकोशोद्घाटनम्
२. क्षीरतरङ्गिणी ३. निपाताव्ययोपसर्गवृत्तिः इति केचित् प्रतिजानते ।
४. अमृततरङ्गिणी ५. गणवृत्तिः ६. निघण्टुवृत्तिः
अत्र निघण्टवृत्तिः सन्दिग्धा वर्तते । यत्तु देवराजयज्वना निघण्टुभाष्यारम्भे क्षीरस्वामिनो निघण्टुटीका स्मृता, साऽमरकोशव्याख्यैव । यतो निघण्टुटीकायां स्मृतेषु द्वात्रिंशत्सु पाठेषु त्रिंशत्पाठाः क्षीरस्वामिनोऽमरव्याख्यान उपलभ्यन्ते । अवशिष्टयोः द्वयोः पाठयोर्मध्ये १।११।३२ निघण्टुटीकायामुद्धृतः शब्दनं शब्दः पाठः क्षीरतरङ्गिण्यां १।७२७ व्याख्यान उपलभ्यते । अत्रास्मन्मुद्रितपाठापेक्षया टिप्पण्यां निदर्शितः शब्दः शब्दनम् पाठः साधीयान् । एकोऽवशिष्टोऽपि पाठः क्षीरतरङ्गिण्याममरकोशोद्घाटने वा क्वचित् स्यात् । यतो निघण्टुशब्दः कोशपर्यायत्वेनापि लोके प्रसिद्धः । अतो देवराजेनाम रटीकाऽपि निघण्टुटीका नाम्ना निर्दिष्टा ।
६- मैत्रेयरक्षितः (सं० १९६५ )
मैत्रेयरक्षितनाम्ना बौद्धविदुषा धातुप्रदीपनाम्न्येका धातुपाठस्य लघ्वी वृत्तिविहिता ।
१. एतदविज्ञाय ऋक्सर्वानुक्रमण्याः षग्गुरुशिष्यव्याख्यायां वेदार्थदीपिकायाम् ' यातयामो जीर्णे भुक्तोच्छिष्टेऽपि च निघण्टौ ' ( पृष्ठ ५६ ) 'शङ्कावितर्क भययोः इति निघण्टुः' इत्युभयोरुद्धरणयोविषये प्राध्यापको मैकडानलटिप्पणयति — 'नास्ति यास्कीर्य निघण्टौ ' इति ( पृष्ठ ५९ ), तच्चिन्त्यम् । षड्गुरुशिष्योद्धृते उभे अपि वचने वैजयन्तीकोशे ( क्रमशः २७५, २२३ पृष्ठयोः ) पठ्यते । २. धातुप्रदीपोऽस्माभिः साम्प्रतं मुद्रयते ।