SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ (३८) परिचयः अयं मैत्रेयरक्षितः कस्मिन् काले, कुत्र, कुतश्च जन्म लेभ इति न विज्ञायते । कदाचिद् बाङ्गः-धातुप्रदीप बत्र धातोर्दन्त्योष्ठ्यादित्वे न शसददवादिगुणानाम् (६।४।१२६) इति प्रत्यक्षसूत्रेण एत्त्वाभ्यासलोपयोः प्रतिषेधे प्राप्तेऽपि चन्द्रसम्मत्या एत्त्वाभ्यासलोपप्रतिषेध उदाहृतः । यथा १-व्रज व्रज गतौ (११२४६,२५०)....."एत्वाभ्यासलोपप्रतिषेधश्चास्य चान्द्ररुदाहृतः-ववाज ववजतुः....."। पृष्ठ २५ । २-ष्टन वन शब्दे (१।४६०,४६१)::........"ववान, ववनतुः, ववनुः । अस्यैत्त्वाभ्यासलोपनिषेधश्चान्द्ररुदाहृतः । पृष्ठ ३७ । ___एतेनानुमीयतेऽयं मैत्रेयः कदाचिद् बङ्गदेशीयः स्यात् । बङ्गदेशीया हि बवयोरभेदेनोच्चारणात् प्रायेण मुह्यन्ति । कालः--सर्वानन्देनामरटीकासर्वस्वे धातुप्रदीपस्तदीया काचित् टीका चासकृदुधुता । टीकासर्वस्वश्च सर्वानन्देन १२१६ वैक्रमाब्दे निर्मितः ।' अतो १२१६ वैक्रमाब्दात् पूर्वभाविनी धातुप्रदीपटीका, ततः पौर्वकालिकश्च धातप्रदीप इत्येतावत् सुनिश्चितम् । अत एवास्माभिः स्वीये व्याकरणैतिह्य धातुप्रदीपस्य रचनाकालः ११६५११६० वैक्रमाब्दपर्यन्तमनुमितः। विद्वत्ता--मैत्रेयरक्षितो व्याकरणशास्त्रस्यासामान्यपण्डित आसीत । अस्य तन्त्रप्रदीपनाम्नी न्यासव्याख्या अतिविपुला वैदुष्यपूर्णा च वर्तते । धातप्रदीपान्ते स स्वयमाह वृत्तिन्यासं समुद्दिश्य कृतवान् ग्रन्थविस्तरम् । नाम्नातन्त्रप्रदीपं यो विवृतास्तेन धातवः ॥१॥ प्राकृष्य भाष्यजलधेरथ धातुनाम पारायणक्षपणकपाणिनिशास्त्रवेदी। १. इदानीं चैकाशीतिवर्षाधिकसहस्रकपर्यन्तेन (१०८१) शकाब्दकालेन ......(१०८१ शकाब्दः= १२१६ विक्रमाब्दैः) । टीकासर्वस्व १।४।२१॥
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy