________________
( ३९ )
कालापचान्द्रमततत्त्वविभागदक्षो धातुप्रदीपमकरोज्जगतो हिताय ॥२॥
परिभाषावृत्तिकृत् सीरदेवोऽप्याह - तस्माद् बोद्धव्योऽयं रक्षितः, बोद्धव्याश्च विस्तरा एव रक्षितग्रन्था विद्यन्ते । पृष्ठ १५ ।
अन्या कृतिः - रक्षितस्याऽन्याकृतिः तन्त्रप्रदीपाख्या काशिकान्यासस्य व्याख्या वर्तते । अनेन महाभाष्यस्यापि काचिद् व्याख्या विरचिता इत्यस्माभिरनेकैः प्रमाणैरनुमितम् । एतद्विषयेऽस्मदीयः 'सं० व्या० शास्त्र का इतिहास' नामा ग्रन्थो द्रष्टव्यः (भाग १, पृ० ४२६४२८; सं० २०४१) ।
धातुप्रदीप - टीका ( ११६० दे० )
केनचिदज्ञातनाम्ना विदुषा धातुप्रदीपस्य काचित् टीका विरचिता । इयं टीका सर्वानन्देन स्वीयेऽमरकोशटीकासर्वस्वे बहुधा निर्दिष्टा । तेनास्याः कालः १२१६ वैक्रमाब्दात् प्रचीन इति निःसंशयं शक्यते वक्तुम् । अस्माभिरस्याः कालः १९६० -१२१५ वैक्रमाब्दं यावदनुमित ( द्र० सं० व्या० शस्त्रेतिहास भाग १, पृष्ठ ४२३; सं० २०४१) ।
७- - दैवम् (१२०० वै० )
अयं श्लोकात्मकः प्रकरणग्रन्थो देवनाम्ना केनचिद् विदुषा विनिमितः । अस्मिन् ग्रन्थेऽनेकत्र पठितानां सरूपाणां धातूनां पाठप्रयोजनं चिन्त्यते । तदुक्तं ग्रन्थान्ते –
इत्यनेकविकरणसरूपधातुव्याख्यानं देवनाम्ना विदुषा विरचितं दैवं समाप्तम् ।
अस्मिन् ग्रन्थ ग्राहत्य शतद्वयं श्लोका विद्यन्ते ।
परिचय:
देवनामा विपश्चित् कस्मिन् काले कुत्र चाजायत इति न कथंचिदपि विज्ञायते । दैवग्रन्थस्य सम्पादकेन गणपतिशास्त्रिणा देवस्य कालः स्त्रस्ताब्दस्य नवमशताब्द्या प्रारम्भादाद्वादशशति प्रभ्यधायि । वयं त्वस्य कालः वैक्रमद्वादशशत्या अन्तिमः पाद इत्यनुमिनुमः । तमौ हेतू -