________________
(४०)
१ - क्षीरस्वामी दैवं न क्वचित् सस्मार । क्षीरस्वामिनश्च ११२५ वैक्रमाब्दात् ११६५ वैक्रमाब्दं यावत् काल इत्यस्माभिः पूर्वमुक्तम् ।
२ - दैवव्याख्यात्रा कृष्णलीलाशुकमुनिना द्वयोस्स्थानयोस्तादृशनिर्देशः कृतो येनानुमीयते यदयं देवो मैत्रेयरक्षितादवरकालिकः । तथाहि
क -
- देवेन तु रक्षितोक्तत कार विस्त्रम्भान्नायमनुसृतः । पृष्ठ २३ ॥
ख - देवेन तु मैत्रेयरक्षितविस्रम्भादेतदुक्तम् । पृष्ठ २८ ।
ग - श्राप्लु लभने इत्यत्र मैत्रेयेरक्षितेन श्रापयते इत्यात्मनेपदमुदाहृतमुपलभ्यते' । दैववशात्तु तस्यापि नैतदस्तीति प्रतीयते । तदनु 'सारेण हि प्रायेण देवः प्रवर्तमानो दृश्यते । पृष्ठ १६ ।
'ष्टै वेष्टने स्तापयति तिष्टायति' इति मैत्रेय
यदि कृष्णलीलाशुकमुनेर्लेखः सत्यं स्यात्तर्हि देवो मैत्रेयरक्षिताद् प्रौत्तरकालिक इति निश्चितं शक्यते वक्तुम् । एतदाधारेण च देवस्य १२०० वैक्रमाब्दः काल इत्येव युक्तम् ।
दैववत्तिकम् (१२५० वै० )
श्रीकृष्णलीलाशुकमुनिना देवस्य पुरुषकारसंज्ञकं वार्तिकमलेखि* । अस्मिन् ग्रन्थे पाणिनीयेतरव्याकरणसम्प्रदायग्रन्थानामपि पदे- पद उद्धरणदर्शनादस्य कर्तुं रनेकतन्त्रनिष्ठं ज्ञानमासीदिति स्फुटं भवति । अनेकत्र च सायणो नामनिर्देशं विनैव पुरुषकारस्य पङ्क्तीरुद्धरति ।
१. सम्प्रतिमुद्रिते धातुप्रदीपे 'प्रापयति' इति परस्मैपदमेवोपलभ्यते । २. मैत्रेयस्यापीत्यर्थः । अस्यायं भावः - यतो दैवेनात्मनेपदं नोदाहृतमतस्तदनुसारिणो मैत्रेयस्य ग्रन्थेऽपि नासीदिति प्रतीयते ।
I
३. तदनुसारेण मैत्रेयानुसारेणेत्यर्थः । अत्र 'यतः' पदमध्याहार्यम् – यतस्तदनुसारेण ..
४. ग्रन्थान्ते – कृष्णलीलाशुकेनैवं कीर्तितं दैववार्तिकम् । .. • इति श्रीकृष्णलीलाशुकमुनिविरचित दैवसहायः पुरुषकारः समाप्तः ।
५. यथा नट धातौ 'यत्कारिषु' इत्यारभ्य 'निरूढलक्षणया नेयः' इत्यन्ता
.........