________________
(४१)
परिचयः श्रीकृष्णलीलाशुकमुनिर्वैष्णवसम्प्रदायस्याचार्यः । अस्य कृष्णकर्णामृतं कृष्णलीलामृतं वा स्तोत्रं वैष्णवेषु अतिप्रसिद्धम् । अयं बंगदेशीय इत्येके मन्यन्ते।
काल:- कृष्णलीलाशुकमुनेः कः काल इति नास्ति कश्चिन्निश्चयः । अतस्तस्य कालनिर्णयाय यानि सहायकानि प्रमाणानि तान्युच्यन्ते
१-पुरुषकारे हेमचन्द्राचार्यः त्रिः स्म॑यते' । हेमचन्द्रस्य च ग्रन्थलेखनकालः ११६० वैक्रमाब्दात् १२२० वैक्रमाब्दपर्यन्तमिति निश्चितप्रायम् । अत इयं पुरुषकारस्य पूर्वा सीमा। ____२-निघण्टुव्याख्यात्रा देवराजयज्वना पुरुषकारस्य नामनिर्देशं विना द्वयोः स्थानयोः पाठ उद्धृतः । देवराजीयं निघण्टुभाष्यं सायणेन ११६२।३ ऋग्भाष्य उद्धृतम् । अतो देवराजस्य वैक्रमाब्दस्य चतुर्दशशत्या उत्तरार्धः (१३५०-१४००) काल इत्यैतिह्यविदः संगिरन्ते । इयं पुरुषकारस्यावरासीमा।
३-लीलाशुकमुनिः स्वव्याख्याने क्वचिद् देवस्य पाठान्तरमप्युपन्यस्यति । देवस्य कालः १२००वैक्रमाब्द इत्यनुमितं पुरस्तात् । . दैवग्रन्थे पाठान्तरोत्पत्तावपि कश्चित् काल अपेक्षत एव । स च न्यूनान्यूनं पञ्चाशद्वर्षमित आवश्यकः । ___एतैः प्रमाणैः सामान्यतयेदमेव शक्यते वक्तुं, यत् पुरुषकारस्य रचना १२५० वैक्रमाब्दात् १३५० वैक्रमाब्दं यावत् कदाचिद् बभूव ।
सीतारामजयरामयोर्धान्तिः- 'संस्कृत साहित्य का संक्षिप्त इति
तिस्रः पङ् क्तयः । धातुवृत्ति पृष्ठ ७८ । इमाः पङ्क्त्यः पुरुषकारे ६६तमे पृष्ठे वर्तन्ते ।
१. पुरुषकार पृष्ठ २२,२४,३७ ।
२. 'क्षप प्रेरणे' इत्यारभ्य 'धातुवृत्तौ पठ्यते' इत्यन्तः (पृष्ठ ४३,१०६) । अयं पाठः पुरुषकारे ६५ पञ्चनवतितमे पृष्ठे वर्तते ।
३. 'उस्राशब्दात् स्वार्थे पृषोदरादित्वेन घ-प्रत्यय इति निघण्टुभाष्यम् । अयं पाठो देवराजीये निघण्टुभाष्ये उस्रियापदव्याख्याने (२।११।३) उपलभ्यते ।