________________
(४२)
हास' नाम्नो ग्रन्थस्य लेखकाभ्यां सीतारामजयरामाभ्यां कृष्णलीलाशुकमुनेः कालः ११५७ वैक्रमाब्दो निर्दिष्टः । स चासमीचीन इत्युपरितन प्रमाणैर्विस्पष्टमेव ।
पुरुषकारे स्मृता कविकामधेनुः - पुरुषकारे कविकामधेनुनामा ग्रन्थो ऽसकृत् स्मर्यते । अयं न वोपदेवविरचितः कविकल्पद्रुमस्य कामधेनुटीका-ग्रन्थः, अपि तु अमरकोषस्य टीका ।' अस्यां हि पाणिनीयसूत्राण्युद्धियन्ते । श्रतः पुरुषकारोधृतोद्धरणैः सम्भाव्यते यदि ममरकोशस्य काचिद् व्याख्या स्यादिति ।
अन्ये ग्रन्थाः - कृष्णलीलाशुकमुनिना विरचिता इमेऽन्ये ग्रन्थाः१ - सुप्पुरुषकारः - सायणः सुब्धातुव्याख्याने पुरुषकारनाम्ना पाठमेकमुद्धरति
तदुक्तं पुरुषकारे - बंहयतीत्युदाहृत्येष्ठनि यद् दृष्टं कार्यं तदप्यतिदिश्यते, न चेष्ठनि यिट् नापीष्ठवद्भावश्च । यिट्सन्नियोगशिष्टत्वात् तदभावे तु भावयतीति चिन्त्यमाप्तरिति । धातुवृत्ति पृष्ठ ४२८ ।
नैष पाठो मुद्रिते पुरुषकारे दृश्यते । प्रतो ज्ञायते कृष्णलीलाशुकमुनिना कश्चित् सुब्धातुव्याख्यात्मकोऽपि पुरुषकारनामा ग्रन्थो विरचित इति ।
२ - कृष्णलीलामृतम् - इदं स्तोत्रम् ।
३ – सरस्वतीकण्ठाभरणव्याख्या - कृष्णलीलाशुकेन भोज देवीयस्य सरस्वतीकण्ठाभरणनाम्नः शब्दानुशासनस्य पुरुषकारनाम्नी व्याख्या विरचिता । एतद्विषयेऽस्मदीयो व्याकरणैतिह्यग्रन्थो ऽवलोकनीयः ।
एतदपि संभाव्यते सायणेन पूर्वनिर्दिष्ट: पुरुषकारपाठः सरस्वतीकण्ठाभरणव्याख्यात उद्घृतः स्यात् ।
४ - श्रभिनवकौस्तुभमाला, ५ - दाक्षिणामूर्तिस्तवः - दैवसम्पाद
१. 'प्रसूनं कुसुमं सुमनम् ' ( अमर २।४।१७ ) इत्यत्र कविकामधेनुः षूङ, प्राणिप्रसवे.. ........। पुरुषकार पृष्ठ ३३ । २. द्र० पुरुषकार पृष्ठ १०३ । ३. द्र० 'मं० व्या० शास्त्र का इतिहास' भाग १, पृष्ठ ६६० - ६६१; सं० २०४१ ।