SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ : (४३) कस्य गणपतिशास्त्रिणो मते इमावपि ग्रन्थौ श्रीकृष्णलीलाशुकमुनेरेव कृती स्तः । अन्योरप्यन्ते- 'इति कृष्णलीलाशुकमुनि........इत्यादिः पुरुषकारसदृश एव पाठ उपलभ्यते । ८-सायणः विविधग्रन्थनिर्मात्रा सायणाचार्येण पाणिनीयधातुपाठस्य स्वज्येष्ठभ्रातुर्माधवस्य नाम्नोऽनुरूपा माधवीयानाम्नी धातुवृत्तिविरचिता । इयं वृत्तिर्वैयाकरणनिकायेऽत्यन्तं प्रसिद्धा वर्तते । संक्षिप्तः परिचयः सायणेन विविधग्रन्थेषु स्वपरिचयो निबद्धः। तदनुसारमस्य पितु म मायणः, मातुः श्रीमती, ज्येष्ठभ्रातुर्माधवः, कनिष्ठस्य भोगनाथ आसीत् । अस्य तैत्तिरीया शाखा बौधायनं सूत्रम्, भारद्वाजश्च गोत्रं बभूव । अयं १३७२ वैक्रमाब्दे जन्म लेभे, १४४४ वैक्रमाब्दे द्वासप्ततिवर्षदेशीयः स्वर्जगाम । सायण एकत्रिंशद्वर्षवयस्को विजयनगराधिपतेः प्रथमस्य हरिहरस्य कम्पणनाम्नोऽनुजस्य (वै० सं० १४०३-१४१२) मन्त्रिपदमलंचकार, तदनु तत्पुत्रस्य संगमस्य (सं० १४१२-१४२०) शिक्षकपदं मन्त्रिपदं च स्वीचकार, तदनन्तरं प्रथमस्य बुक्कनृपतेः (सं० १४२१-१४३७), द्वितीयस्य हरिहरस्य (सं० १४३८-१४४४) चामात्यपदधुरमुरवाह ।' धातुवृत्तनिर्मितिकालः धातुवृत्तेराद्यन्तयोः पाठेन ज्ञायते यत् सायणेन संगमनृपतेरमात्यपदमलंकुर्वतेयं वृत्तिविरचिता । तथाहि आदौ'अस्ति श्रीसङ्गमक्ष्मापः पृथिवीतलपुरन्दरः। यत्कीतिमौक्तिकमादर्श त्रिलोक्यो प्रतिबिम्बते ॥४॥ अन्ते-इति पूर्वदक्षिणपश्चिमसमुद्राधीश्वरकम्पराजसुतसंगम . १. सायणाचार्यस्य पूर्णवृत्तज्ञानाय पण्डितबलदेवोपाध्यायकृतः 'प्राचार्य सायण और माधव' नामा ग्रन्थोऽवलोकनीयः ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy