SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ (४४) महाराजमहामन्त्रिणा मायणसुतेन माधवसहोदरेण सायणाचार्येण विरचितायां धातुवृत्तौ चुरादयः सम्पूर्णाः । तदेवं धातुवृत्तेरचनाकाल १४१५ वैक्रमाब्दात् १४२० वैक्रमाब्दपर्यन्तं स्यात् । धातुवृतेनिर्माता - येयं महती ग्रन्थराशि: ' सायणनाम्नोपलभ्यते न सा सर्वा सततममात्यपदभारमुद्वहता सायणेनैव विरचिता, अपि तु तेन स्वस्य सहायकैर्बहुभिः पण्डितैर्निर्मापिता इति विद्वत्समाजे प्रसिद्धिर्वर्तते । अत एव तन्नाम्ना प्रसिद्धेषु ग्रन्थेषु यत्र तत्र पारस्परिको विरोधोऽप्युपलभ्यते । सत्येवं माधवीया धातुवृत्तिस्तेन स्वयं विरचिताऽऽहोस्वित् तत्सहायकेनान्येनैव केनचिद् विदुषा निर्मिता इति सन्देहो जागर्त्येव । धातुवृत्तौ ऋमु पादविक्षेपे इति सूत्रव्याख्यानान्ते पठ्यतेयज्ञनारायणार्येण प्रक्रियेयं प्रपञ्चिता । तस्या निःशेषतस्सन्तु बोद्धारो भाष्यपारगाः । पृ० ६७॥ एवं मव्य बन्धने इति सूत्रान्तेऽपि - अत्रापि शिष्यबोधाय प्रक्रियेयं प्रपञ्चिता । यज्ञनारायणार्येण बुध्यतां भाष्यपारगैः ॥ पृ० १०२ ॥ उभयत्र स्मृतो यज्ञनारायणः किं सायणस्यैव नामान्तरमुत तत्सहायकस्य धातुवृत्ते रचयितुर्वास्तविकं नामेति सन्देह निर्गमकं न किञ्चित् प्रमाणमुपलभ्यते । वयं त्वनुमिनुमो यदयं यज्ञनारायणः सायणस्य सहायको धातुवृत्ते रचयिता स्यात् । धातुवृत्तेर्वे शिष्ट्यम् माधवीयधातुवृत्तेः प्राचीने क्षीरस्वामिमैत्रेयरक्षितयोर्द्वे धातुव्याख्ये समुपलभ्येते । ते प्रत्यन्तं संक्षिप्ते स्तः । तयोरपि धातुप्रदीपः संक्षिप्त ९. यद्यपि राशिशब्दः पुंल्लिङ्गे प्रयुज्यते तथाप्यस्य स्त्रीलिङ्गेऽपि प्रयोगा लभ्यन्ते । तद्यथा - लक्ष्मीसहस्रनामटीकायाम् (पृष्ठ ५१२, चौखम्बा संस्करणे) ‘स्यान्निकायः पुञ्जराशी इति राशिशब्दस्य पुंस्त्वेऽपि 'अलभ्यं घोराभिः सुविमलतपोराशिभिः ' इति पण्डितराजोऽपि स्त्रीत्वं व्यधत्त ।'
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy