________________
(४५)
तरः । नैताभ्यां विद्वांसोऽपि धातुकान्तारावगाहनं कर्तुं समर्थाः, अकृतधियां तु का कथा। नैव च तयोः प्रतिधातु णिजन्तसन्नन्तादिरूपाणि प्रदर्श्यन्ते । माधवीयायां खलु प्रायेण सर्वेषां धातूनां णिजन्तादिप्रक्रियाः संक्षेपतः प्रपञ्च्यन्ते । अपि च सन्दिग्धेषु रूपेषु विविधमतान्युद्धृत्य निर्णयो विधीयते । यद्यप्यनेकत्र परमसूक्ष्म विचारचर्चया काठिन्यमपि समपद्यत, तथापि कृतधियां विपश्चितामध्यापकानां कृत इयं परमसाहाय्यमातनुते । सिद्धान्तकौमुद्याः प्रचलनात् प्राग् धातुपाठस्य कीदृशी अध्यापनप्रवृत्तिः पाणिनीयेष्वासीदित्यस्य वास्तविक दर्शनमप्यत्रैवोपलभ्यते । किं बहुनाऽऽर्षपाठविधिनाऽध्यापकानामध्येष्यमाणानां च काशिकावृत्तिरिवेयमपि प्रधानसहायभूता वर्तते ।
प्रक्रियाग्रन्थान्तर्गतानि धातुव्याख्यानानि वैक्रमाब्दस्य. द्वादशशत्याः पाणिनीयव्याकरणस्य पठनपाठनं शब्दानुशासनक्रममुज्झित्वा प्रक्रियाक्रमेण प्रवृत्तम् । प्रक्रियाग्रन्थकारैर्धातुपाठस्यापि तत्रैवान्तर्भावः कृतः । ते चेमे ग्रन्थाः ग्रन्थकाराश्च६-रूपावतारः धर्मकीतिः
११४० वै० १०–प्रक्रियारत्नम्
१३०० वैक्रमाब्दात्पूर्वः ११-रूपमाला विमलसरस्वती १४०० वैक्रमाब्दात्पूर्वः १२-प्रक्रियाकौमुदी रामचन्द्रः १४८० वै० १३- सिद्धान्तकौमुदी भट्टोजिदीक्षितः १५७५ वै० १४–प्रक्रियासर्वस्वम् नारायणभट्टः १६२० वै०
एषु चतुर्खाद्येषु नैव सर्वे धातवो विवियन्ते, नापि व्याख्यातधातूनां णिजन्तादिसर्वप्रक्रियासु रूपाणि प्रदर्श्यन्ते । उत्तरयोग्रन्थयोर्यद्यपि सर्वे धातवो व्याख्याताः तथापि शुद्धकर्तृप्रक्रियां विहाय णिजन्तादिषु तेषां रूपाणि नोच्यन्ते । णिजन्तादिप्रक्रियाप्रदर्शनाय केषांचिदेव धातूनां रूपाणि निदर्श्यन्ते । नैतेषु किञ्चिद्व शिष्टय वर्तते । ___ एषां ग्रथानां ग्रन्थकृतां तद्व्याख्याकृतां च कालादिविषयेऽस्माभिः 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नो ग्रन्थस्य षोडशाध्याये (भाग १, पृष्ठ ५८२-६०७; सं० २०४१) विस्तरेण प्रत्यपादीति नेह पुनः प्रपञ्च्यते ।