Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 13
________________ (८) अपाणिनीयत्वप्रतिपादकानि प्रमाणानि-यैः प्रमाणैर्धात्वर्थनिर्देशानामपाणिनीयत्वं प्रतीयते, तान्युच्यन्ते १-परिमाणग्रहणं च कर्तव्यम् । इयानवनिर्धातुसंज्ञो भवति इति वक्तव्यम् । कुतो ह्य तद् भूशब्दो धातुसंज्ञो भवति, न पुनर्वेधशब्दः । महा० १।३।१।। यदि हि नाम भू सत्तायाम् एध वृद्धौ इत्येवं सार्थको धातूनां पाठो भवेत्, तर्हि भ्वेधसमुदायस्य धातुसंज्ञायाः शङ्कव नोदेति, भू शब्दानन्तरं सत्तायाम् पदस्य पाठात् । अत एव एतद्भाष्यव्याख्याने कैयट प्राह - ___ न चार्थपाठः परिच्छेदकः, तस्यापाणिनीयत्वात्, अभियुक्तरुपलक्षणतयोक्तत्वाद् इति । __अत्रैव अभियुक्तपदव्याख्याने नागेशः-भीमसेनेनेत्यतिह्यम् इत्युक्तम् । २-पाठेन धातुसंज्ञायां समानशब्दानां प्रतिषेधो वक्तव्यः । या इति धातुः, या इत्यावन्तः। वा इति धातुः, वा इति निपातः । न इति धातुः, नु इति प्रत्ययः। दिव इति धातुः, दिव इति प्रातिपदिकम् । . महा० १।३।१।। यदि हि नाम धातुपाठेषु या प्रापणे, वा गतिगन्धनयोः इत्येवं सार्थो धातूपदेशः स्यात्, तर्हि शङ्कवेयं नोदियात् । यः खलु प्रापणेऽर्थे या-शब्दः स धातुसंज्ञो भविष्यति । पाबन्तस्तु नैव प्रापणार्थकः, कुतस्तस्य धातुसंज्ञायाः प्राप्तिः, यस्य प्रतिषेधः कर्तव्यो भवेत् । एवं वा नु-दिव आदिष्वप्युह्यम्। ३ - (क) म ह्या प्रादिश्यन्ते क्रियावचनता च गम्यते । महा० ३।११८, ११, १६॥ (ख) कः खल्वपि पचादीनां क्रियावचनत्वे यत्नं करोति । महा० ३।१।१६। (ग) को हि धातुप्रातिपदिकनिपातानामर्थानादेष्ट समर्थः । महा० २।१।१॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 444