Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 18
________________ (१३) धातोरर्थभेदात् द्वयोः स्थानयोः पाठं कुर्यात् । अनेन ज्ञायते, यथा पाणिनिना सूत्रपाठे बहुलं छन्दसि इति समानवर्णानुपूर्विकं सूत्रमर्थभेदात् चतुर्दशसु स्थानेषु पठितं तथैव धातुपाठेऽपि एक एव धातुरर्थ - भेदाद्द्वस्त्रिर्वापठित इति । , एतैः प्रमाणैर्धातूनामर्थनिर्देशः पाणिनीय इति विस्पष्टमुक्तं भवति । धातुपाठस्य द्विधामवचनम् उभयोर्वादयोनिर्णयः - धातुपाठस्थोऽर्थनिर्देशः पाणिनीय उतापाणिनीय इत्यत्रोभयथाऽपि प्रमाणानि निर्दिष्टानि । तत्र त्वेष निर्णयः --- उभयथा ह्याचार्येण भगवता पाणिनिना धातुपाठस्य प्रवचनमकारि । तत्र केचन शिष्या अर्थनिर्देशं विना भवेधस्पर्ध इत्येवं धातून् एव संहितापाठेन प्रतिपादिताः, अपरे भू सत्तायाम् उदात्त, एध वृद्धौ इत्येवं सार्थान् । अत एव महाभाष्य उभयथा निर्देशा उपलभ्यन्ते । लघुपाठो वृद्धपाठश्च - तत्रार्थनिर्देशं विना धातूनां यः पाठः स लघुपाठो ज्ञेयः, सार्थपाठो वृद्धपाठः 1 अष्टाध्याय्या द्विधापाठ: - यथा धातुपाठस्य द्विविधः पाठः पाणिनीयः, एवमष्टाध्याय्या अपि द्विविध: पाठ उपलभ्यते । एको वार्त्तिकभाष्याश्रयभूतः, अपरः काशिकादिवृत्तिकाराश्रितः । तत्र वार्त्तिक - भाष्याश्रयभूतोऽष्टाध्याय्या लघुपाठः, काशिकाकाराश्रितो वृद्धपाठः । अष्टाध्याय्याद्विविधपाठविषयेऽस्माभिः 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नि ग्रन्थे विस्तरेण प्रतिपादितम्', तत्तत्रैव द्रष्टव्यम्, विस्तरभिया नेह प्रपञ्च्यते । एवमेवान्येष्वपि निघण्टु निरुक्त- स्मृतिनाट्यशास्त्रादिषु द्विविधः पाठ उपलभ्यते । वात्तिकपाठस्याश्रयः: - यथा वार्तिककारोऽष्टाध्याय्या लघुपाठमाश्रित्य वार्त्तिकं सूत्रयामास, तथैव धातुपाठस्यापि सो र्थरहितं लघुपाठमेवाशिश्रयदिति परिमाणग्रहणं च ( १।३।१ ) इति तदीयवातिकात् पातञ्जलव्याख्यानाच्च सुवचनम् । भट्टनागेशस्य भ्रान्तिः -- धातूनामर्थनिर्देशविषये महाभाष्ये द्विः प्रकार१. द्र० सं० व्या० शा० का इतिहास, भाग १, पृष्ठ २३७-२३६; सं० २०४१ ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 444