Book Title: Kshir Tarangini Author(s): Yudhishthir Mimansak Publisher: Ramlal Kapur TrustPage 11
________________ (६) विकारप्रत्ययादीनां पाठको यदि पाणिनिस्तर्हि नूनं धातूनां प्रवक्ताऽपि स एव । ३ - एवं तहि सिद्धे सति यदादिग्रहणं करोति तज्ज्ञापयत्याचार्यः - श्रस्ति च पाठो बाह्यश्च सूत्रात् । महा० १।३।१।। अत्र स्पष्टमेव धातुपाठस्य सूत्रवत् पाणिनीयत्वमुपपादितम् । अत्र ह्याचार्यपदेन पाणिनिरेवाभिप्रेतः, यतो हि तस्यैव भूवादयोः धातवः ( ० १।३।१ ) इति सूत्रनिर्दिष्टाऽऽदिग्रहणेनैतज्ज्ञापनमुक्तम् । ४- श्रथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति नैवं जातीयकानामिदविधिर्भवति । यदयमिरितः कांश्चिन्नुमनुषक्तान् पठति -- उबुन्दिर् निशामने, स्कन्दिर् गतिशोषणयोः । महा० १|३|७|| अस्मिन्नुद्धरणे य एव खल्वाचार्यो ज्ञापयति- क्रियायाः कर्ता, स एव पठति - क्रियाया प्रपि, इत्यनया वाक्यरचनया विस्पष्टम् । तथा च सति मनुषक्तानाम् उबुन्दिर् प्रादिधातूनां पाठकः पाणिनिरेव । ५ - तथाजातीयकाः खल्वाचार्येण स्वरितत्रितः पठिता य उभययेषां कर्त्रभिप्रायं चाकर्त्रभिप्रायं च क्रियाफलमस्ति । महा० १। वन्तः, ३॥७२॥ भाष्यकारो हि प्राचार्यपदेन पाणिनि वा स्मरति कात्यायनं वा । उक्तवाक्ये कात्यायनस्य निर्देशो न कथपपि संभाव्यतेऽतो व्यतिरेकेण पाणिनिरेवान्राचार्योऽभिप्रेतः । तथा सति पाणिनिनैव स्वरितत्रितो धातवः पठिता इति व्यक्तम् । स च पाठो धातुगण एव सम्भवति, नान्यत्र । ६ - कृतमनयोः साधुत्वम् । कथम् ? वृधिरस्मायविशेषेणोपदिष्टः प्रकृतिपाठे, तस्मात् क्तिन्प्रत्ययः || महा० १|१|१| ७ - मृजिरस्मायविशेषेणोपदिष्टः । महा० १ । १ । १ । । ८ - घरतिर स्मायविशेषेणोपदिष्टः । महा० ७ १६७ ६ - रशिरस्मायविशेषेणोपदिष्टः । महा० ६ । १०६७॥ अत्र हि षष्ट उद्धरणे भाष्यकृता प्रकृतिपाठस्य साक्षादुल्लेखः कृतः। तत्र च वृधेरुपदेष्टा स एव, येन क्तिन्प्रत्ययस्य विधानमुक्तम् ।Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 444