Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 11
________________ भूमिका वाग्देवीं मनसा ध्यात्वा त्यायन्तमिह दर्श्यते। ससमीक्षं पदं सम्यग् व्याख्याचतुष्टयात्मकम् ॥ कातन्त्रतन्वेऽस्ति महान् प्रयासः संक्षेपसारल्यनिदर्शनार्थम् । सन्धिं समासादिविधि प्रदर्श्य प्रस्तूयते त्यादिविधिस्तदीयः॥ 'मोदकं देहि' इति वचनाधारितस्याध्यायत्रितयात्मकस्य कातन्त्रव्याकरणस्य १९९७ तमे यीशवीयाब्दे प्रकाशिते सन्धिप्रकरणात्मके प्रथमभागे पञ्चसु पादेषु स्वर-व्यञ्जन-प्रकृतिभाव-अनुस्वार-विसर्गाभिधानान् पञ्च सन्धीन निर्वर्ण्य 'मा+उदकम्' इति सन्ध्यभिप्रायः प्रपूरितः। तदनु १९९८ तमे यीशवीयाब्दे प्रकाशितस्य नामचतुष्टयात्मकस्य द्वितीयभागस्य प्रथमखण्डे पुंलिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गशब्दान्, १९९९ तमे यीशवीयाब्दे प्रकाशितस्यास्यैव नामचतुष्टयात्मकस्य द्वितीयभागस्य द्वितीयखण्डे कारक-समास-तद्धितांश्च प्रदर्श्य ‘मोदकम्' इति स्याद्यन्तपदेनोपलक्षितानि कार्याणि संक्षेपेण सूत्रेषु निबद्धानि । ___'देहि' इति यदाख्यातपदमवशिष्टम्, तस्यैव सम्पूर्तये शर्ववर्माचार्येणाष्टसु पादेषु त्याद्यन्तपदरूपाख्यातविधयो निर्दिष्टाः । तेषामेव विधीनां प्रदर्शनार्थम्, अथवा सन्धिभागे वर्णानाम्, नामचतुष्टये स्याद्यन्तपदस्य च वर्णनानन्तरं वाक्यपूर्तये परमापेक्षितानां क्रियापदानामन्वाख्यानार्थं तृतीयभागस्य प्रथमखण्डेऽस्मिन् केवलं त्रयः पादाः १२३ सूत्रात्मका: संगृहीताः सन्ति । त्रयाणामेषां पादानां क्रमेण नामानि विज्ञेयानि - १. परस्मैपादः,२. प्रत्ययपादः,३.द्विर्वचनपादश्च ।पादनामानुसारेण प्रथमे परस्मैपादे 'परस्मैपद-आत्मनेपद-प्रथमपुरुष-मध्यमपुरुष-उत्तमपुरुष-दा-धातु-वर्तमानापरोक्षा-ह्यस्तनी-अद्यतनी-क्रियातिपत्ति - भविष्यन्ती-आशी:-श्वस्तनी-पञ्चमी-सप्तमीसार्वधातुक' इत्येता अष्टादशसंख्याकाः संज्ञाः, तदीयाः केचिद् विधयः, वर्तमानादिविभक्त्यर्थबोधार्थं कालाधिकारः, ‘पञ्चमी-अद्यतनी-ह्यस्तनी' इत्येतासां विभक्तीनां विशेषप्रयोगाः प्रकीर्तिताः सन्ति । . द्वितीये प्रत्ययपादे प्रत्ययसंज्ञापुरस्सरं 'सन्-यिन्-काम्य-आयि-इन्-य-आय' इत्येते सप्त प्रत्ययाः नामधातुविधा नार्थं विहिताः, 'कृ - भू- अस्' इत्येतेषां त्रयाणां धातूनामनुप्रयोगः, 'सिच-सण-चण्-अण्-इच्-यण' इत्येते विभक्तिविशेषप्रत्यया उक्ताः भ्वादिप्रभृतिधातुगणपठितानां धातूनां त्यादिप्रत्ययानां च मध्ये 'अन्-यन्-नु-न-उ-ना'

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 564