Book Title: Kasturi Prakar
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan
View full book text
________________
शार्दूलविक्रीडितवृत्तम्
जातिः शारदशर्वरीश्वररुचां सौन्दर्यसंहारिणी, बुद्धिर्बह्वसमानवाङ्मयसरिन्नाथप्रमाथाद्रिराट् । रूपं दर्पकदर्पसर्पफणभृत्प्रत्यर्थितुल्यं पुनस्तादृग्गौरवभाजनं भवति नो यादृग्गुणानां गणः ।। १६० ।।
વૈરાગ્યપ્રમ
ग्रामीणेष्विव नागरोऽर्ककुसुमस्तोमेष्विवालिर्युवा, मातंगो मरुमेदिनीष्विव मृगो दग्धेषु दावेषु च । चक्रश्चंदिरदीधितिष्विव शमीगर्भेष्विवाम्भश्चरो, नो भोगेषु रतिं करोति हृदयं वैराग्यभाजां क्वचित् ।। १६१।।
यद्वाञ्छन्ति न दुर्भगामिव वधूं प्रोत्तुंगपीनस्तनीं, यत्स्निह्यन्ति न तस्करैरिव सदा मुत्सुन्दरैः सोदरैः । नो मुह्यन्ति च पन्नगेष्विव मणिहारेष्वपारेषु च, योगोद्योगनियोगिनः प्रशमिनस्तत्साम्यलीलायितम् ।। १६२ ।।

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140