Book Title: Kasturi Prakar
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan

View full book text
Previous | Next

Page 130
________________ सौहार्ददृष्टिः सुकृतैकपुष्टिः, परोपकारः करुणाधिकारः । विवेकयोगः समताभियोगः, संतोषवृत्तिः कृतिनां प्रवृत्तिः ।। १७५ ।। ज्ञानी विनीतः सुभगः सुशीलः, प्रभुत्ववान्न्यायपथप्रवृत्तः । त्यागी धनाढ्यः प्रशमी समर्थः, पञ्चाप्यमी भूमिषु कल्पवृक्षाः ।। १७६ ।। दुःस्थोऽपि यः पातकभीतचेता, युवापि यो मारविकारहीनः । आढ्योऽपि यो नीतिमतां धुरीणस्त्रयोऽप्यमी देवनदीप्रवाहाः || १७७ ||

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140