________________
सौहार्ददृष्टिः सुकृतैकपुष्टिः, परोपकारः करुणाधिकारः । विवेकयोगः समताभियोगः, संतोषवृत्तिः कृतिनां प्रवृत्तिः ।। १७५ ।।
ज्ञानी विनीतः सुभगः सुशीलः, प्रभुत्ववान्न्यायपथप्रवृत्तः । त्यागी धनाढ्यः प्रशमी समर्थः, पञ्चाप्यमी भूमिषु कल्पवृक्षाः ।। १७६ ।।
दुःस्थोऽपि यः पातकभीतचेता, युवापि यो मारविकारहीनः । आढ्योऽपि यो नीतिमतां धुरीणस्त्रयोऽप्यमी देवनदीप्रवाहाः || १७७ ||