Book Title: Kasturi Prakar
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan

View full book text
Previous | Next

Page 132
________________ शार्दूलविक्रीडितवृत्तम् वृत्तिर्नीतिमती रमा च परमा शश्वद्विनीताः सुता, बंधुबंधुरधीर्मतिः स्मृतिमती वंशः प्रशंसास्पदम् । वीर्यं वर्यतरं वचश्च मधुरं मूर्तिश्च विस्फुर्तिभाक्, सानंद विदुरैरिदं निगदितं धर्मस्य लीलायितम् ।।१७८।। प्रशस्तिः शास्त्रैः शास्त्रवतां बलैर्बलभृतां श्रीभिः श्रियाशालिनां, शीलैः शीलजुषां गुणैर्गुणजुषां धीभिश्च धीमालिनाम् । सर्वेषां गुरुरस्त्यमी मम पुनर्मत्वेति येषां व्यधाद् विश्वानंदकरी जगद्गुरुरिति ख्याति हुमायुसुतः ।।१७९।। तेषां चन्दनचन्द्रमौक्तिककुमुत्कैलासशैलोल्लसत्, कीर्तिस्फीतमरीचिमण्डितदिशां प्रौढप्रतिष्ठास्पृशाम् । सूरीणां मुनिहीरहीरविजयाह्वानां शिवश्रीमतां, राज्ये राजिनि विज्ञहेमविजय: सूक्तावलिं निर्ममे ।।१८०।।

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140