Book Title: Kasturi Prakar
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan
View full book text
________________
सौजन्यं जनकः प्रसूरूपशमस्त्यागादरः सोदरः, पत्नी पुण्यमतिः सुहृद्गुणगणः पुत्रस्त्रपासंगमः । नैर्दम्भ्यं भगिनी दया च दुहिता प्रीतिश्च मातृस्वसा, सान्द्रानन्दकुटं कुटुम्बकमिदं प्राहुः सतां धीधनाः ।। १७२ ।।
इन्द्रवज्रावृत्तम् अर्चार्हतां संयमिनां नमस्या, संगः सतां संश्रुतिरागमानाम् । दानं धनानां करुणाङ्गभाजां, मार्गोऽयमार्यैरुदितः शिवस्य ।। १७३ ।।
ि
उपजातिवृत्तम् विस्फुर्तिमत्कीर्तिरनिंद्यविद्या, समृद्धिरिद्धा रमणीयरूपम् । सौभाग्यसिद्धिर्विमलं कुलं च, फलानि धर्मस्य षडप्यमूनि ।। १७४ ।।

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140