Book Title: Kasturi Prakar
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan
View full book text
________________
વિવેદપ્રક્રમ काव्यानां करणैः कृतं सुरुचिरैर्वाचा प्रपञ्चैः सृतं, पूर्णं बाहुबलैरलं च तपसां पूरैः प्रसिद्ध्यंकुरैः । एकश्छेकजनैः प्रमोदविपणि: सेव्यो विवेकः सखे ! सर्वा येन विनेन्दुनेव रजनिः श्रेणिर्गुणानां मुधा ।।१६६।।
यस्मिन् रम्यरूचेर्यशः कुमुदिनीभर्तुर्भवेत्संभवः, सम्प्राप्त्यै विबुधेश्वरैरिह गवां य: सेव्यते रत्नभूः ।
येनोद्यत्कतिहारिणी गुणमणिश्रेणिश्च विश्राण्यते, दत्ते कस्य हरेरिवैष न रमा वैदग्ध्य दुग्धोदधिः ।।१६७।।
वैराग्यं सुभगं तदेव यशसां राशिः स एवोल्लसन्, स्फुर्तिः सैव शुभा च सैव च गुणश्रेणिमनोहारिणी,
ध्यानं धन्यतमं तदेव वचसामोघस्स एवानघस्तारास्विन्दुरमन्दमन्दभवनं यत्रौचिती चञ्चति ।।१६८।।

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140