Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 7
________________ प्रस्तावना कलस्वरूपमतिसूक्ष्मेक्षिकया विवृतं यदर्शनमात्रेण सर्वशमूलत्वमस्यैवैकस्य दर्शनस्य परीक्ष्यते परीक्षकैः । कर्मप्रकृतिः कर्मसाहित्यम् ___ श्रीकर्मप्रन्यादयोऽनेके ग्रन्थाः सटीकास्सन्ति श्रीसनातनजैनश्वेताम्बरमूर्तिपूजककर्मसाहित्ये। अनेन प्रन्थेन तु कलशायितं तत्र । ॥३॥ कर्मग्रन्थपठनानन्तरं य अमुं ग्रन्थं पठन्ति गीतार्थगुरुनिश्रया तेषां ज्ञानं तद्विषये त्रुटिरहितं संपूर्ण भवतीत्यस्माकमनुभवः। श्वेताम्ब रसाहित्यमनुसृत्येतरसाहित्यसर्जनवदागमविच्छेदं मन्यमानैदिगम्बराचार्यैः कषितं कर्मसाहित्यं कियवर्तते, परं कतिपयजल्पान्वजित्वा शपथAN ग्रहणापेक्षमप्येतद्वात्रिंशन्मूलसूत्राणि मन्यमानानां स्थानकवासिनां पावें तु न विद्यते किश्चित् । । वैशिष्टयम् मूलटीकासु वैशिष्ट्याभिधानं न किञ्चिदौचित्यमावहति । इयदेव विज्ञप्यते यत्सूत्रकारैः सूचनन्यायेन सूत्रितं तच्चूर्णिकारैः स्पर्शनन्यायेन स्पर्शितं, स्पर्शितं सन्मलयगिरिपादेरुद्घाटनन्यायेनोद्घाटितं. उदघाटित सदुपाध्यायपादेविवेचनन्यायेन विवेचितम् । श्रीशतकसप्ततिकापञ्चसंप्रदायनुसारेणाष्टकर्मोत्तरप्रकृतीनामनेके मेदाः, बन्धनकरणादिषु स्वामित्वसाधादिप्ररूपणाः, वन्धोदयाद्याश्रित्य भूयस्कारा. दयः, तत्स्थानानि, संवेधधैवं तत्तदुपयोगिनः सर्वे अपि विषया विवेचितास्तैः शासनप्रभावकैः, न शेषितं केवलिसमुद्घातस्वरूपं क्षपकश्रेणिस्वरूपमपि। आयोजिका____ समुद्धातं च ते केवलिनो गच्छन्ति येषां वेदनीयादि कर्म आयुषः सकाशादधिकतरं भवति, नान्ये । आयोजिकाकरणं त्वेतवत्सर्वे केव| लिनः कुर्वन्त्येव । आवश्यककरणादीनि चैतस्यापरनामानि। तथाचोक्तं श्रीप्रज्ञापनायामपि। कर्मणामासमन्ताद्योजनार्थे तत्क्षयसम्मुखीभवनार्थमात्मानं प्रति मोक्षस्याभिमुखीकरणार्थमात्मानं मोक्षं प्रत्युपयोजनार्थ वाऽऽयोजिकाकरणं क्रियते, समुद्घातं चातुल्यकर्मणां समीकरणार्थ maapawan2 ॥३॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 1490