Book Title: Karm Prakruti Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani Publisher: Jin Gun Aradhak Trust View full book textPage 8
________________ Doदद | क्रियते, एतच्चैतयोरन्तरम् । आयोजिका प्रथम क्रियते, आवश्यकता चेत्समुद्घातं पश्चाद्गम्यते । एवं सत्यप्यायोजिकाकरणं कर्मसमी. करणार्थ प्ररूपयति यः कश्चित्तेन शास्त्राभ्यासो न सम्यकृतो विलोक्यते । Kal गुणश्रेणयः___ अस्मिन्प्रकरणे सूत्रकारेणैवोदयाधिकारेऽष्टमनवमगाथायां सम्यक्त्वादिगुणश्रेणय एकादश प्रोक्ताः । तदवलोकनेन निश्चीयते प्रथमसम्यक्त्वोत्पादकस्य या निर्जरा तस्या देशविरतेरसंख्यगुणा, सर्वविरतेस्तु तस्या अप्यसंख्यगुणा, पवमुत्तरोत्तरश्रेणेरसंख्येयगुणा निर्जरा। | श्रीतत्त्वार्थादिसूत्रेष्वपि गुणश्रेणीनां निर्जराक्रम उत्तरोत्तर पवासंख्येयगुणः प्रतिपादितः । न कुत्रापि प्रथमसम्यक्त्वोत्पादकस्य सर्वविरतेरप्यसंख्यगुणा निर्जरा निरूपिता। स एव प्रथमसम्यक्त्वोपादको गीयते योऽनादिमिथ्यादृष्टिः सन्मिथ्यात्वं केवलमुपशमय्योपशमसम्यक्त्वं प्राप्नोति कार्मग्रन्थिकाभिप्रायेण, सैद्धान्तिकाभिप्रायेण च क्षायोपशमिकमपि। अनन्तानुबन्धिविसंयोजको दर्शनमोहक्षपको दर्शनमोहोपशामको वा न कदापि प्रथमसम्यक्त्वोत्पादको भवत्युभयत्र । यः कश्चित्प्रथमसम्यक्त्योत्पादकस्य सर्वविरतेरप्यसंख्यगुण निर्जरकत्वं दर्शनमोहक्षपकोपशामकयोश्च प्रथमसम्यक्त्वोत्पादकत्वं मन्यते तेनेदं प्रकरणं सम्यग् विचारणीयम् । | वर्षाष्टकः हक्षपकश्रेण्यधिकारे जन्मतो वर्षाष्टकस्योपरि वर्तमान उत्तमसंहननः शुभध्यानोऽविरतसम्यग्दृष्टिदेशविरतिप्रमत्ताप्रमत्तसंयतानाम | न्यतमो मनुष्योऽधिकारी विहितः । स चान्तर्मुहूर्तेन घातिकर्माणि क्षपयित्वा केवलमवाप्नोति यावदघातीन्यपि घातयित्वा सिद्धिपदमप्यअनुते । तथैव च निरूपितमस्मिन् सूत्रे प्रदेशसंक्रमणाधिकारे क्षपितकौशस्वरूपे उत्कृष्टप्रदेशोदयस्वामित्वाधिकारे च लघुक्षपणायां पदे पदे । अस्मिन्विषये नास्ति मतान्तरं सैद्धान्तिकानामपि । शायते अनेन जन्माष्टकवर्षवयोदीक्षिते जघन्यवयस्के वार्षिकपर्यायस्यानियमः। सच गर्भाष्टमवयोदीक्षिते चरितार्थों भविष्यत्येव । अत्र गर्भाष्टमं नाम कि जम्मसप्तममष्टमं वा ग्राह्यम् ? कश्चिदभिनिविष्टो वदति-'ननुPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 1490