Book Title: Kalpsutram
Author(s): Danvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
विलोपश्च यथा यज्ञनियुक्तानामामिषाऽभक्षणे प्रतिपादितः प्रत्यवायो विधिबिलोपश्च नैतावदेव प्रत्युतात्र तु शुद्धिसम्पादनाय प्रतिपादितं प्रायश्चित्तमपि । समस्ति सार्वज्ञमते सुनिषुणानामपि योगापेक्षा न श्रुतमेतत् यदुत पदानुसारिलब्धिधारिणामपि श्रीमतां वखस्वामिपादानामयोगित्वेन गुरुभिर्वाचनाचार्य्यपदप्रार्थनाऽपि स्पष्टत्वेन प्रतिषिद्धा ? श्रुता चेत् ? नैव विधेयं श्रेयोर्थिभिर्योगहीनत्वालम्बनं, विचारणीयं च मुहुर्मुहुर्भगवदुपदिष्टं, नात्र प्रमदितव्यम्, परोपकाररसिकैः परोपकारलिप्सया विधानादिकमपि प्रदर्शितं योग्यतासम्पादनाय च सर्वत्र समयप्रमाणमपि संदर्शितं, अस्य सूत्रस्यापि समाराधने प्रतिपादितः पञ्चवर्षीयः प्रव्रज्यापर्यायः, यतः श्रीमति व्यवहारसूत्रे “पंचवासपरियागस्स समणस्स कप्पति दसाकप्पव्ववहारा नामज्झयणे उद्दिसित्तए” एतदुल्लेखेन विज्ञायत एतद् यदुत - दशाश्रुतस्कन्धस्य समाराधने पंचवर्षीयः प्रव्रज्यापर्यायोऽपेक्षितस्तदाऽस्य तु तस्यैवाष्टमाध्ययनतया सुतरामेव तावाम् समयोऽपेक्षितोऽत एवास्य सूत्रस्य भगवतः बाचने श्रावणे च विहितयोगानुष्ठानाः सुविशुद्धसाधव एवाधिकारिणः, श्रवणे तु पूर्वं साधुसाध्वीनाम्, पञ्चाच श्रीवीरनिर्वाणादशीत्यधिकनवशत (९८० ) वर्षातिक्रमणे मतान्तरेण च त्रिनवतियुतनवशत ( ९९३ ) वर्षातिक्रमे पुत्रमरणार्त्तस्य श्रीध्रुवसेनराज्ञः समाधिमा धातुमानन्दपुरे सभासमक्षं समहोत्सवं वाचयितुमारब्धं ततः प्रभृति चतुर्विधस्यापि श्रीसंघस्याधिकारः, तथाचेोपाध्यायश्रीमद्धर्मसागरपादाः
‘“अथानधिकारिणा हि कृतं साङ्गमपि कर्म्म नोक्तफलाव्यमिचारि भवतीत्यत्र वाचनायां श्रवणे च केऽधिकारिण इत्याकाङ्क्षायां मुख्यतः साधवः साध्व्यश्चाधिकारिणः, तत्राऽपि कालतो रात्रौ कृतोद्देशसमुद्देशादियोगानुष्ठानो वाचनोचितो वाचयति, तदितरे तु शृण्वन्ति, साध्वीश्रावणादिकारणे पुनर्निशीथचूर्ण्याद्युक्तविधिना दिवापि तयोरधिकारः । सम्प्रति तु श्रीवीरनिर्वाणादशीत्यधिकनवशत ९८० वर्षाति - *मे क्वचित त्रिनवतिमवशत ९९३ वर्षातिक्रमे ध्रुवसेननृपस्य पुत्रभरणार्त्तस्य समाधिमाघातुमानन्दपुरे सभासमक्षं समहोत्सव श्रीकल्पसूत्र वाचवितुमारभ्रम्, अतः प्रभृति चतुर्विधसङ्गोऽप्यधिकारी श्रवणे, वाचनायां तूतलक्षणः साधुरेवेति दृश्यत इति बोध्यम्” ।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 426