________________
अगेलन्ने । एएहि कारणेहिं, अपत्ते होइ निग्गमणं ॥१॥ काइअभूमी संथारए अ, संसत्तदुलहे भिक्खे । एएह कारणेहिं, अपत्ते होइ निग्गमणं ॥२॥ राया सप्पे कुंथू, अगणिगिलाणे अथंडिलस्सऽसई । एएहि कारणेहिं, अपत्ते होइ निग्गमणं ॥३॥" तथा वर्षानतिक्रमे कालातिक्रमणऽपि जिनाज्ञा एव । उक्तं च-"वासं वा नो विरमइ, पंथा वा दुग्गमा सचिक्खिला । एएहिं कारणेहिं, अइकते होइ निग्गमणं ॥१॥" एवमशिवादिदोषाभावेऽपि संयमपरिपालनहेतवः क्षेत्रगुणा अप्यन्वेषणीयास्ते चामी-"चिक्खिल्ल १पाण २ थंडिल ३ वसही ४ गोरस ५ जणाउले ६ विजे ७ । ओसह ८ निचया ९ हिवई १०, पासंडा ११ भिक्ख १२ सज्झाए १३॥१॥" व्याख्यायत्र क्षेत्रे न भूयान् कईमः १, यत्र च न भूयांसः सम्मूर्छिमाः प्राणाः २, स्थण्डिलमनापातमसंलोकं ३, वसतिः स्त्रीपण्ढपश्चादिदोषरहिता सुलभा च ४, यत्र गोरसः प्रचुरः ५, यत्र भूयान् जनः, सोऽप्यतीव भद्रकः ६, वैद्याश्च भद्रकाः ७, औषधानि सुलभानि ८, यत्र कौटुम्बिकानां धनधान्यनिचितानि बहूनि गृहाणि ९, यत्र राजा अतीव भद्रकः १०, यत्र ब्राह्मण-तापस-भरडक-लैङ्गिकादिभिर्मुनीनामपमानं न स्यात् ११, यत्र क्षेत्रे भैक्ष्य सुलभं १२, यत्र खाध्यायो वसतावन्यत्र च शुद्ध्यति १३, इति । जघन्यतोऽपि चत्वारोऽमी गुणाः-"सुलहा विहारभूमी १, विआरभूमी २ अ सुलहसज्झाओ । ३ सुलहा भिरका ४ य जहिं, जहन्नयं वासखित्तं तु ॥१॥" शेष तु पञ्चादिद्वादशपर्यन्तगुणान्वितं मध्यममिति । एवंविधगुणाभावे सन्नपि दोषाभावो मरुमरीचिकावदकिञ्चिकरः, तथा गुणा अपि दोषजुषो विषमिश्रितपायसमिवाकिञ्चित्कराः इति दोषाभावजुषो गुणानालोच्य
SAGARAASARA
३ सुलहा भिरका
दोषाभावो मरुमानालोच्य*