Book Title: Jain Varshik Parv Sangraha tatha Nitya Upayogi Sanchay
Author(s): Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 422
________________ ४०० - વાર્ષિક ૫ ૧ સં ગ હ ॥श्री शान्त्युद्घोषणा ॥ रोगशोकादिभिर्दोषै-रजिताय जितारये। नमः श्रीशान्तये तस्मै, विहिताऽनन्तशान्तये ॥१॥ श्रीशान्तिजिनभक्ताय, भव्याय सुखसम्पदाम् । .. श्रीशान्तिदेवता देया-दशान्तिरपनीयताम् ॥ २ ॥ अम्बा निहितडिम्बा मे, सिद्धिबुद्धिसमन्विता । सिते सिंहे स्थिता गौरी, वितनोतु समीहितम् ॥ ३॥ घराधिपतिपत्नी या, देवी पद्मावती सदा । क्षुद्रोपद्रवतः सा मां, पातु फुल्लत्फणावली ॥ ४ ॥ चश्चञ्चक्रधरा चारु-प्रवालदलदीधितिः।। चिरं चक्रेश्वरी देवी, नन्दतादवताच माम् ॥ ५॥ खड्ग-खेटक-कोदण्ड-बाणपाणिस्तडिद्युतिः । तुरङ्गगमनाऽच्छुप्ता, कल्याणानि करोतु मे ॥ ६ ॥ मथुरायां सुपार्थश्री, सुपार्श्वस्तूपरक्षिका। श्रीकुबेरा नरारूढा, सुताङ्काऽवतु वो भयात् ॥ ७ ॥ ब्रह्मशान्तिः स मां पाया-दपायाद् वीरसेवकः । श्रीमत्सत्यपुरे सत्या, येन कीर्तिः कृता निजा ॥on श्रीशक्रप्रमुखा यक्षा, जिनशासनसंस्थिताः। देवदेव्यस्तदन्येऽपि, संघ रक्षन्त्वपायतः ॥ ९ ॥ श्रीमद्विमानमारूढा, यक्षमातङ्गसंगता । सा मां सिद्धायिका पातु, चक्रचापेषुधारिणी ॥१०॥

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440