Book Title: Hirsundaramahakavyam Part 2
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२८२
श्री हीरसुन्दर' महाकाव्यम् निववृते प्रमदेन्दिरयान्वितः, स 'जिनगर्भगृहान्तरतस्ततः । चतुरिकोदरतोऽभिनवोढया, वर इवाऽमृतदीधितिवक्त्रया ॥११०॥'
(१) निवृत्तः । निर्गतः । (२) हर्षलक्ष्या सहितः । (३) सूरिः । (४) ऋषभदेवस्य गर्भालयात् । (५) 'चउरी 'ति लोकप्रसिद्धं परिणयनस्थानं, तन्मध्यात् । (६) नवपरिणीतया। (७) स्त्रिया ॥११०॥
'अदीक्षयत्तत्र स कांश्चैिदिभ्य-तनूभवान्गौतमवद्गणीन्द्रः । कांश्चित्ककुश्रेष्ठिमुखाङ्गभाज-स्तुर्यव्रतोच्चारमँकारयच्च ॥१११॥
(१) दीक्षां दत्ते स्म । (२) सूरिः । (३) व्यवहारिपुत्रान् । ( ४) गौतमस्वामीव । (५) पत्तनसत्कककुनामा श्रेष्ठी तत्प्रमुखान्जनान् । (६) ब्रह्मव्रतोच्चारम् । (७) कारयति स्म ॥१११॥
'पुण्डरीकान्तिकस्थास्नु-रथोद्दिश्य वशी 'विशः । 'श्रीशत्रुञ्जयमाहात्म्यं, वृषाङ्कवदभाषत ॥११२॥
(१) पुण्डरीकप्रतिमासत्कदेवकुलिकाबहिरि स्थितः । (२) सूरिः । (३) जनानुद्दिश्य । (४) शत्रुञ्जयपर्वतमहिमानम् । (५) ऋषभदेव इव ॥११२॥ यत्तीर्थेऽन्यत्र शुद्धाध्यवसितिविशदध्यानतः पूर्वकोट्या,
प्राणी बध्नाति "पुण्यं भवति भवभृतां तत्क्षणेनाऽप्यमुष्मिन् । भेतव्यं पातकेभ्यो भुवि न भविजनैर्भेद्यनिर्भेददक्षे,
क्ष्माभृत्यस्मिन्र्शरण्ये पुनरहिमरुचीवाऽन्धकारोत्करेभ्यः ॥११३॥ (१) अन्यस्मिन् तीर्थे । (२) निष्पापपरिणामेन कृत्वा यच्छुक्लध्यानं तस्मात् । (३) पूर्वाणां कोट्या । (४) जन्तुः । (५) सत्कर्म । (६) उपार्जयति । (७) तत्पुण्यम् । (८) भविनाम् । (९) क्षणमात्रशुभध्यानेन । (१०) अत्र शत्रुञ्जये भवति । (११) पातककारकैः पापेभ्यो न भीतिरानेतव्या । (१२) भेद्यस्य-दुष्कर्मादेः भेदने-विदारणे खण्डीकरणे निपुणे । (१३) अस्मिन्श्रीशत्रुञ्जयशैले सति । (१४) शरणागतवत्सले । (१५) सूर्ये । (१६) स[म]स्ततमोभरेभ्य इव ॥११३॥ अहंद्देशनवेश्मनीव सततं सन्त्यज्यतेऽस्मिन्मिथः,
पारीन्द्रद्विरदादिजन्मिनिवहैराँजन्मविद्वेषिता । राज्ये नीतिमतः 'क्षितेरधिपते ता इवोर्वीस्पृशां,
१२सर्वे सन्त्यैकतोभया यदचलोत्सले पुनः स्थायुकाः ॥११४॥ (१) समवसरणे इव । (२) निरन्तरम् । (३) मुच्यन्ते । (४) पर्वते । (५) परस्परम् । (६) सिंहगजप्रमुखसत्वनिकरैः । (७) अवतारमुत्पत्तिं मर्यादीकृत्य विरोधिता-वैरम् । (८) न्यायभाजः । (९) नृपस्य । (१०) जनानाम् । (११) गणा इव । (१२) समस्ताः । (१३) 1. अतः परं हीमु०पुस्तकान्तर्गत: ११३तमः श्लोकोऽत्र नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426