Book Title: Hirsundaramahakavyam Part 2
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सप्तदशः सर्गः
'सप्तसहस्राः सर्वाः, 'सम्भूय ल्यारिका 'इह "व्ययिताः । 'सप्ताऽपि दुर्गतीरिव, 'निषेद्धमेतैः समुत्सुकितैः ॥१८१॥
( १ ) सप्तसहस्रप्रमाणा: । ( २ ) सर्वा अपि वस्त्रादीनां चन्दनादीनां पूजानां च । (३) एकत्र कृत्वा । ( ४ ) संस्कारावसरे । (५) व्ययीकृताः । ( ६ ) सप्तसङ्ख्याका अपि । ( ७ ) नरकगती: । ( ८ ) निवारयितुम् । (९) उत्कण्ठितैः ॥१८१॥
'चैत्ये 'श्रीफलतन्दुलान्र्जिंनपुरस्तें ढौकयित्वा ततः,
"संस्तुत्य प्रणिपत्य भक्तिभरिता 'जग्मुर्गृहानात्मनाम् । गीर्वाणा इव वासवप्रभृतयो "नन्दीश्वरेऽष्टाहिकाः,
१३ निर्माय ऽनुसमेतयौवतयुता "निर्वाणकल्याणके ॥१८२॥
( १ ) प्रासादे । ( २ ) नालिकेरशालिप्रमुखकणश्रेणीम् । (३) प्रतिमापुरस्तात् । ( ४ ) संस्कारकारिणः । उपलक्षणात्परेऽपि द्वीपोन्नतनगर श्रावका: । ( ५ ) संस्तवमजितशान्ति - शान्तिस्तवादि कृत्वा कथयित्वा च । ( ६ ) प्रणम्य । प्रणामश्च भक्तिनिर्भराणामेव । (७) आत्मीयान्गेहान् । (८) गता: । ( ९ ) देवा इव । (१०) शक्रप्रमुखाः । ( ११ ) नन्दीश्वरद्वीपे स्वस्वाञ्जनरतिकरदधिमुखादिगिरिषु । ( १२ ) अष्टाह्निकामहोत्सवम् । (१३) कृत्वा । (१४) पश्चात्समागतयुवतीसमूहकलिताः । (१५) भगवन्निर्वाणकल्याणकसमये ॥१८२॥
तस्मिन्नेव निशावसानसमये दिव्यश्रियं संश्रयन्सौहिश्रीमदकब्बरावनिपतेः श्रीहीरसूरीश्वरः । "प्राग्वाग्बद्ध इवाँऽभ्युपेत्य सविधे प्राचीनरूपाञ्चितो,
३२३
मित्रस्येव "निजं द्युलोकगमनं "प्राक्स्नेहतः प्रोचिवान् ॥१८३॥
(१) यस्यां निशायां हीरसूरयः स्वर्लोकमलञ्चक्रुस्तत्र रात्रिपर्यन्तसमये - ब्राह्मे मुहूर्ते । (२) देवतासम्बन्धिनीं लक्ष्मीम् । (३) बिभ्राणः । ( ४ ) पातिसाहिश्चतुर्दिगन्तदेशाधिपस्य हस्त्यश्वपुरनगरग्रामदुर्गकोट्टहेमरूप्यमणिमौक्तिकप्रमुखाशेषलक्ष्मीशालिनः अकब्बरस्य । ( ५ ) श्रीहीरविजयसूरीन्द्रः । ( ६ ) प्राचीनवाचा नियन्त्रित इव । (७) समागत्य । ( ८ ) पार्श्वे । (९) सूरिसम्बन्धिना पूर्वस्वरूपेन (ण) कलितः । (१०) आत्मीयम् । ( ११ ) स्वर्लोकगमनम् । (१२) प्राचीनमिलनसञ्जातप्रीत्या । (१३) कथयति स्म ॥१८३॥
'तन्मूर्त्तिसंस्कृतिपदे सुरसृष्टनाट्य - मालोक्य 'तीर्थ इव नागरनैगमेन । “तत्सन्निधिस्थकृषिरक्षणदीक्षितेन, प्रात: पुरीजनपुरस्तंदुदीर्यते स्म ॥ १८४॥
Jain Education International
( १ ) सूरिदेहसंस्कारस्थाने । ( २ ) देवनिर्मितनाटकम् । ( ३ ) दृष्ट्वा । ( ४ ) शत्रुञ्जयादितीर्थभूमाविव । (५) नागरजातीयेन वणिजा । ( ६ ) सूरिसंस्कारस्थानसमीपकृतकृषिरक्षणे गृहीतप्रतिज्ञेन । (७) प्रातःकाले । ( ८ ) नगरलोकस्याऽग्रे । ( ९ ) निगदितम् ॥१८४॥
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426