Book Title: Hirsundaramahakavyam Part 2
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 340
________________ सप्तदशः सर्गः ३२७ दग्धा "चित्रलता "गतः "शकलतां हा ! 'दक्षिणावर्त्तभृत् कम्बु स्वर्गिगृहं गते त्वयि गुरो ! "श्रीहीरसूरीश्वर ! ॥२०॥ (१) उच्छेदं प्राप्तः । (२) कल्पवृक्षः । (३) व्यापन्ना । (४) कामधेनुः । (५) ठिक्करीभूतः । (६) कामकुम्भः । (७) चिन्तामणिः । (८) चूर्णतां लेभे । (९) ज्वलिता । (१०) चित्रवल्ली । (११) प्राप्तः । (१२) खण्डताम् । (१३) हा इति खेदे । (१४) दक्षिणदिशि आवर्तं बिभर्तीति । (१५) शङ्खः । (१६) देवमन्दिरम् । (१७) याते । (८) श्रीहीरविजयसूरे ! ॥२०॥ हा ! हा ! भूघनबोधनैकविबुध ! 'श्रीसूरिचूडामणे !, हा ! 'सिद्धान्तसमुद्रमन्दरगिरे ! हा ! शासनाहर्मणे !।। हा ! हा ! यौक्तिकवाक्पुरन्दरगुरो ! वैराग्यवारांनिधे ! ___ हा ! कारुण्यनिधे ! 'विधेर्वशतया त्वं कुत्र यातः प्रभो ! ॥२०१॥ (१) हा हा इति पुनः पुनः खेदवाक्ये । ( २ ) मुद्गलेन्द्राकब्बरसाहिप्रतिबोधनेऽद्वैतनैपुण्यवान् । (३) श्रिया युक्ता ये सूरयस्तेषां मुकुटायमान ! । (४) आगमसागरावगाहनमेरुगिरे ! । (५) जिनशासनभानो ! दीपकत्वात् । (६) युक्तिमद्वचनभाषणे वाचस्पते ! (७) वैराग्यसमुद्र ! । (८) कृपानिधे ! (९) दैवस्याऽऽयत्तत्वेन । (१०) अस्मान्मुक्त्वा त्वं कस्मिन्स्थाने गतः ॥२०१॥ 'अद्योऽस्तं गतवान्सहस्रकिरणचन्द्रोऽपि तन्द्रां गतः, शुष्कः क्षीरनिधुिर्विधेविलसितैर्मेविलीनः पुनः । "भूमौ ' श्रीजिनसार्वभौमविभवभ्राजिष्णुतां बिभ्रति, "श्रीसूरीश्वरहीरहीरविजये 'गीर्वाणगेहं गते ॥२०२॥ (१) एवं ज्ञायते । (२) अस्तमितः । (३) भास्करः । (४) शशी अपि । (५) तन्द्रावशीभूतः । (६) क्षीरसागरः ।(७) शोषं प्राप्तः । (८) दैवस्य । (९) विजृम्भितैः । (१०) स्वर्णाचलः । (११) द्रवीभूतः । (१२) भूमण्डले । (१३) जिनेन्द्रवैभववत्तीर्थकरातिशयलक्ष्मीवच्छोभनशीलताम् । (१४) धारयति । (१५) श्रिया युक्ता ये सूरय आचार्यास्तेषामीश्वरा अतिशायिशोभाभाजस्तेषु हीरः-रत्नायमाने हीरविजयसूरीन्द्रे (१६) स्वर्गम् । (१७) प्राप्ते । एवंविधः समयो जातः ॥२०२॥ गर्जन्ति प्रतिमन्दिरं प्रमुदिता 'मिथ्यादृशः 'कौशिकाः, श्रीमत्सङ्घसरोजकान मिदं म्लानिं च धत्तेऽधुना । सम्प्राप्तप्रसराः "स्फुरन्ति परितो नक्तंचरा 'दुर्दशो, यातेऽस्तं गवि "हीरसूरितरणौ "स्फूर्ति तमः शीलति ॥२०३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426