________________
सप्तदशः सर्गः
३२७ दग्धा "चित्रलता "गतः "शकलतां हा ! 'दक्षिणावर्त्तभृत्
कम्बु स्वर्गिगृहं गते त्वयि गुरो ! "श्रीहीरसूरीश्वर ! ॥२०॥ (१) उच्छेदं प्राप्तः । (२) कल्पवृक्षः । (३) व्यापन्ना । (४) कामधेनुः । (५) ठिक्करीभूतः । (६) कामकुम्भः । (७) चिन्तामणिः । (८) चूर्णतां लेभे । (९) ज्वलिता । (१०) चित्रवल्ली । (११) प्राप्तः । (१२) खण्डताम् । (१३) हा इति खेदे । (१४) दक्षिणदिशि आवर्तं बिभर्तीति । (१५) शङ्खः । (१६) देवमन्दिरम् । (१७) याते । (८) श्रीहीरविजयसूरे ! ॥२०॥ हा ! हा ! भूघनबोधनैकविबुध ! 'श्रीसूरिचूडामणे !,
हा ! 'सिद्धान्तसमुद्रमन्दरगिरे ! हा ! शासनाहर्मणे !।। हा ! हा ! यौक्तिकवाक्पुरन्दरगुरो ! वैराग्यवारांनिधे !
___ हा ! कारुण्यनिधे ! 'विधेर्वशतया त्वं कुत्र यातः प्रभो ! ॥२०१॥ (१) हा हा इति पुनः पुनः खेदवाक्ये । ( २ ) मुद्गलेन्द्राकब्बरसाहिप्रतिबोधनेऽद्वैतनैपुण्यवान् । (३) श्रिया युक्ता ये सूरयस्तेषां मुकुटायमान ! । (४) आगमसागरावगाहनमेरुगिरे ! । (५) जिनशासनभानो ! दीपकत्वात् । (६) युक्तिमद्वचनभाषणे वाचस्पते ! (७) वैराग्यसमुद्र ! । (८) कृपानिधे ! (९) दैवस्याऽऽयत्तत्वेन । (१०) अस्मान्मुक्त्वा त्वं कस्मिन्स्थाने गतः ॥२०१॥ 'अद्योऽस्तं गतवान्सहस्रकिरणचन्द्रोऽपि तन्द्रां गतः,
शुष्कः क्षीरनिधुिर्विधेविलसितैर्मेविलीनः पुनः । "भूमौ ' श्रीजिनसार्वभौमविभवभ्राजिष्णुतां बिभ्रति,
"श्रीसूरीश्वरहीरहीरविजये 'गीर्वाणगेहं गते ॥२०२॥ (१) एवं ज्ञायते । (२) अस्तमितः । (३) भास्करः । (४) शशी अपि । (५) तन्द्रावशीभूतः । (६) क्षीरसागरः ।(७) शोषं प्राप्तः । (८) दैवस्य । (९) विजृम्भितैः । (१०) स्वर्णाचलः । (११) द्रवीभूतः । (१२) भूमण्डले । (१३) जिनेन्द्रवैभववत्तीर्थकरातिशयलक्ष्मीवच्छोभनशीलताम् । (१४) धारयति । (१५) श्रिया युक्ता ये सूरय आचार्यास्तेषामीश्वरा अतिशायिशोभाभाजस्तेषु हीरः-रत्नायमाने हीरविजयसूरीन्द्रे (१६) स्वर्गम् । (१७) प्राप्ते । एवंविधः समयो जातः ॥२०२॥ गर्जन्ति प्रतिमन्दिरं प्रमुदिता 'मिथ्यादृशः 'कौशिकाः,
श्रीमत्सङ्घसरोजकान मिदं म्लानिं च धत्तेऽधुना । सम्प्राप्तप्रसराः "स्फुरन्ति परितो नक्तंचरा 'दुर्दशो,
यातेऽस्तं गवि "हीरसूरितरणौ "स्फूर्ति तमः शीलति ॥२०३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org