SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३२६ श्री हीरसुन्दर' महाकाव्यम् 'वादे 'वादिगणान्विजित्य 'समरे दैत्यानि[व] श्रीपतिः, कीर्तिस्तम्भमिवाऽऽत्मनो नृपपुरः संस्थाप्य धर्म पुनः । 'श्यामीकृत्य मुखान्यशेषकुदृशां पूषेव काकद्विषां, __ सूरिः कारयति स्म भूमिवलये स्वीयां जयोद्धोषणाम् ॥१९६॥ (१) विवादावसरे । (२) ब्राह्मणगणान्प्रतिवादिनः । (३) जित्वा । (४) सङ्ग्रामे । (५) असुरानिव । (६) नारायणः (७) पातिसाहिपुरः । (८) जैनधर्मम् । (९) स्थापयित्वा । (१०) आत्मनः कीर्तिस्तम्भमिव । (११) कृष्णानि कृत्वा । (१२) कुमतीनां वदनानि । (१३) सूर्य इव । (१४) कौशिकानाम् । (१५) विजयसेनसूरिः । (१६) आत्मीयजयपटहम् । (१७) वादयति स्म ॥१९६॥ । 'तस्य स्फुरन्मानमंकब्बरेण, प्रीत्या स्फुरन्मानमिवाऽर्पयित्वा । स( स्व) बन्धुवत्स्वीयजनैरुपैतः, सम्प्रेषितो हीरगुरोः 'समीपे ॥१९७॥ (१) सूरेः । (२) फुरमानम् । (३) साहिना । (४) जगच्चमत्कारकारिसन्मानमिव । (५) समर्प्य । (६) स्वभ्रातरमिव । (७) स्वकीयजनेन कलितम् । (८) प्रेष्यते स्म । (९) हीरसूरेः । (१०) पार्वे ॥१९७॥ सोऽप्योकर्णितहीरसूरिमघवाङ्गापाटवः सञ्चरन्, यावर्दूर्जरदेशलक्ष्मितिलकं सम्प्राप्तवान्पत्तनम् । “सन्तप्तत्रपुराशिसिञ्चनमिव श्रुत्योरैशर्मावहं, 'स्वर्लोकोपगमं गुरोर्गणधरस्तावत्समाकर्णयत् ॥१९८॥ (१) श्रीविजयसेनसरिरपि । (२) श्रवणविषयीकृतहीरसूरिशक्रशरीरमान्द्यः । (३) अनवच्छिन्नप्रयाणैः प्रचलन् । (४) यस्मिन्समये । (५) गूर्जरमण्डललक्ष्या भालस्थलतिलकायमानम् । (६) प्राप्तः । (७) अणहिल्लपत्तनम् । (८) अग्नितापितत्रपूणां राशेः श्रवसि क्षेपणमिव । (९) कर्णयोः । (१०) दुःखकारि । (११) देवलोकगमनम् । (१२) श्रीहीरसूरेः । (१३) गच्छाधिराजः । (१४) श्रुतवान् ॥१९८॥ 'श्रुत्वा तद्वजाहत, इवाऽभवद्वाष्पपूर्णनयनयुगः । एष पुर्नर्दुःखादिद-मँजीगदद्गद्गदध्वनितः ॥१९९॥ (१) आकर्ण्य । (२) गुरोः स्वर्लोकगमनम् । (३) वज्रेण ताडिव इव । (४) अश्रुभिः पूरितलोचनयुगलः । (५) सूरिः । (६) असातात् । (७) वारं वारं वक्ति स्म । (८) दुःखभरादपटुध्वनितः ॥१९९॥ 'उच्छिन्नः सुरभूरुहोऽप्यपगता स्वर्धामधेनुः पुन 'र्भग्न: कामघटो मणिः सुमनसां चूर्णीबभूव क्षणात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy