________________
३२८
श्री हीरसुन्दर' महाकाव्यम् (१) गर्जारवं कुर्वन्ति । (२) गृहं गृहं प्रति । (३) हृष्टाः सन्तः । (४) मिथ्यात्विनः । (५) कौशिका इवेति गर्भितोत्प्रेक्षा । (६) शोभायुक्तसङ्घरूपकमलकाननम् । (७) प्रत्यक्षं दृश्यमानम् । (८) सङ्कोचमञ्चति । चतुर्विधसङ्घरूपपद्मवनं विच्छायीभूतमास्ते । (९) लब्धावकाशाः । आसादितविस्तरा वा । (१०) स्फूर्ति श्रयन्ति-प्रसरन्ति । (११) चतुर्दिक्षु । (१२) निशाचरा राक्षसा इव । (१३) दुष्टदर्शनाः कुपाक्षिका । (१४) दिवं सम्प्राप्ते । (१५) हीरसूरिभास्करे । (१६) तमोऽज्ञानं ध्वान्तम् । (१७) प्रकटीभवति । ॥२०३॥
कातर्यमुत्सृज्य विधाय धैर्य, दुःखं तनूकृत्य स कृत्यविज्ञः । गणः ‘गणीन्द्रो गुणिनां वरेण्यः, "प्राचीनसूरीन्द्र इव प्रशास्ति ॥२०४॥
(१) श्रीगुरुविरहेण विधुरीभावं कातरत्वं त्यक्त्वा । (२) कृत्वा ।(३) धीरतामवलम्ब्य । (४) गुरुं दुःखमपि स्वल्पीकृत्य । (५) सूरिः । (६) कार्यकुशलः । (७) गच्छम् । (८) सङ्गे प्रवचनेऽधीतिनां मध्ये स्वामी । (९) गुणवताम् । (१०) प्रकृष्टः । (११) पूर्वाचार्य इव । (१२) अधुना पालयतीत्यर्थः ॥२०४॥ 'श्रीसूरिहीरविजये 'भजति 'धुलोक मभ्युद्गते 'विजयसेनगणावनीन्द्रे । 'प्रीति जना द॑धति शीतरुचौ प्रयाते, क्षेत्रान्तरं समुदितें शुमतीव कोकाः ॥२०५॥
(१) श्रिया युक्तः सूरिः हीरसूरिस्तस्मिन् । (२) स्वर्लोकम् । (३) श्रयति सति । (४) अभ्युदयं प्राप्ते । (५) विजयसेनसूरीन्द्रे । (६) धर्मस्नेहं प्रमोदं वा । (७) लोका । (८) धारयन्ति । (९) चन्द्रे ।(१०) दीपान्तरं याते सति । (११) उदयं गते । (१२) भास्करे । (१३) चक्रवाकाः ॥२०५॥
'साम्राज्यं वारांनिधि-वसनावलयस्य सार्वभौम इव । "जिनशासनस्य राज्यं, भजते 'श्रीविजयसेनविभुः ॥२०६॥
(१) सम्यगाधिपत्यम् ।(२) भूमण्डलस्य ।(३) चक्रवर्तीव । ( ४ ) जिनशासनस्यैश्वर्यम् । (५) श्रीविजयसेनसूरिः । (६) इदानीं श्रयते ॥२०६॥
'श्रीविजयदेवसूरी-श्वरेण सहितो हरिर्जयेनेव । "श्रीविजयसेनसूरि-क्षमापतिः पर्वतायुः स्तात् ॥२०७॥
(१) पट्टालङ्कारकारिणा श्रीविजयदेवसूरीन्द्रेण सहितः । (२) शक्रः । (३) जयदत्ते(न्ते)नेव । (४) श्रीविजयसेनसूरिराजः । (५) पर्वततुल्यायुर्भवतात् ॥२०७॥
1. तत्पट्टोदयभूधर-भास्वान्श्रीविजयदेवसूरीन्द्रः । भजते तपगणराज्य-श्रियमुर्वीसार्वभौम इव ॥२०९।। हीमु० । 2. सीहगिरेरिव वज्र-स्वामी तस्यैष पदपयोधिविधुः। श्रीविजयदेवसूरि-क्षोणीन्द्रः पार्वतायुः स्यात् ॥२१०॥ हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org