Book Title: Hirsundaramahakavyam Part 2
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 342
________________ सप्तदशः सर्गः अथाऽऽशीर्वादावसरः 'यावन्मांर्त्तण्डमुख्यग्रहणकलितो भूभृतां चक्रवर्त्ती, प्रीति पीयूषपूरैः सृजति जनदृशां शर्वरीसार्वभौमः । यावर्त्यांथोजपाणिर्हरिंदेलसदृशामस्यपद्मप्रकाशी, यावद्भू पीठभारं भजति र्निजफणामण्डलैः कुण्डलीन्द्रः ॥२०८॥ 'यावज्जम्भारिधूमध्वजजलजसुहृत्सूनुरक्षःस्रवन्ती कान्तावासाहिकान्तत्रिनयनसवयः पार्वतीशा दिगीशाः । 2 यावत्पौथोधिपृथ्वीधरगुरुगुरुतां बिभ्रती रैत्नगर्भा, 'जन्तून्यावर्पुनीते त्रिजगति भगवद्भारती स्वः स्त्रवती ॥ २०९॥ 'स्थेमानं 'गाहमानो 'बलमथनपथे यावदौत्तानपादि र्यावत्केल्लोललेखाविलिखितदिविषत्पद्धतिः सिन्धुकान्तः । 'श्रीमद्रूपाङ्गजादिव्रतिविधुमधुकृच्चुम्ब्यमानांह्निपद्म ३२९ स्तावज्जया कैम्माङ्गजमुनिमघवा पार्श्वदेवप्रसादात् ॥२१०॥ [त्रिभिर्विशेषकम् ] इति पं० देवविमलगणिविरचिते श्रीहीरसौभाग्य ( सुन्दर) नाम्नि महाकाव्ये शत्रुञ्जययात्राकरणानन्तरप्रस्थान-शत्रुञ्जयासिन्धूत्तरणा-ऽजयपार्श्वनाथयात्राकरण- तन्महिमवर्णन द्वीपसङ्घसम्मुखागमनोनतनगरपवित्रीकरण-संलेखनाराधनाविधाना- ऽनशनपूर्वकस्वर्लोकगमन श्रीविजयसेनसूरिंगणैश्वर्याऽशीर्वादवर्णनो नाम षोडश: (सप्तदशः) सर्ग: । सम्पूर्णं चैतत्काव्यमजायत श्रीपार्श्वनाथप्रसादाच्चिरं नन्दतु । इति षोडशः (सप्तदश: ) सर्गः ॥ १६ ( १७ ) | ग्रन्थाग्र ३०५ ॥ सूत्रसर्वसङ्ख्या सप्ता( स ) दशसर्गः ॥ १७ ॥ ग्रन्थाग्रसूत्रसङ्ख्या ४१९२॥ सूत्र - वृत्तिसर्वैकत्रमीलने ग्रं० ९७४५ ।। १ ) यावत्कालम् । (२) सूर्यप्रमुखग्रहसमूहसहितो मेरुगिरिरस्ति । (३) प्रमोदम् । (४) अमृतरसप्रसरै: । (५) करोति । ( ६ ) लोकलोचनानाम् । ( ७ ) चन्द्रः । ( ८ ) सूर्यः । (९) दिग्मृगाक्षीणाम् । (१०) वदनकमलविकाशक: । ( ११ ) भूमण्डलभारम् । (१२) श्रयति । (१३) स्वफणाचक्रवालैः । (१४) शेषनागः ॥ २०८ ॥ Jain Education International ( १ ) यावत्कालम् । ( २ ) इन्द्राग्नियमनैर्ऋतवरुणवायुकुबेरेशाना: । ( ३ ) अष्टौ दिक्पालाः । (४) समुद्राणां गिरीणां चाऽतिशायिभारं बिभ्रती । ( ५ ) वसुधा । ( ६ ) प्राणिन: । ( ७ ) पवित्रयति । (८) त्रिभुवने । ( ९ ) जिनवाणी । (१०) गङ्गा च ॥ २०९ ॥ 1. जन्तून् यावत्पुनाति त्रिभुवनभवनान्भारती विश्वभर्तुः हीमु० । 2. यावत्सिद्धस्रवन्तीतपनतनुरुहाभारतीसङ्गमश्च श्रीमत्पार्श्वप्रसादाज्जगति विजयतां हीरसौभाग्यकाव्यम् । हीमु० । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426