Book Title: Hirsundaramahakavyam Part 2
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 335
________________ श्री हीरसुन्दर' महाकाव्यम् (१) गुरुशरीरसंस्करणाय समुदायम् । (२) संस्कारभूमौ । (३) आनयन्ति स्म । ( ४ ) विगतोद्यमाः । ( ५ ) श्रीखण्डकाष्ठप्रमुखम् । (६) देवा: । (७) जिनमुक्तिगमनसमये ॥ १७५ ॥ 'व्यालानुषङ्गवशतो वसतेंर्वनान्ते, 'पुष्पाश्रिया फलरसैरपि 'वन्ध्यभावात् । आगार्मुमुर्षुरँतिदुःखगणेन गन्ध-सारः किमंत्र " तिथिसङ्ख्यमणप्रमाणः ॥१७६॥ ३२२ ( १ ) सर्वैः समं सङ्गमवशात् । (२) वनमध्ये वसनाच्च । ( ३ ) कुसुमशोभया । ( ४ ) सस्यानां, “फलं तु सस्य" मिति हैम्याम्, रसैर्निः स्यन्दैः । (५) मोघत्वात् । " यद्यपि चन्दनविटपी विधिना फलपुष्पवर्जितो विहित" इति वचनात् । (६) मर्त्तुमिच्छुः । (७) अधिकदुःखातिशयेन । (८) श्रीखण्ड: । ( ९ ) अत्र संस्कारस्थानके । (१०) पञ्चदशमणप्रमाणः ॥ १७६ ॥ घृतमिव पितृनिधन - भवो गुरुद्रवस्तत्र पञ्चसेरमितः । "सुहृदिव सस्नेहोऽगुरु-रप्यानीतो मणत्रितयः ॥ १७७॥ ( १ ) आज्यम् । ( २ ) पितुर्दध्नो मथनान्मारणादुत्पन्नम्, तथा तातस्य कृष्णागुरोर्निदाघाद्गलनात्सञ्जातः । (३) 'चूआ' इति नामाऽगुरुद्रवः । (४) पञ्चसेरप्रमाण: । (५) मित्र इव । ( ६ ) स्नेहः -द्रवश्चआभिधः प्रीतिश्च तेन युक्तः । ( ७ ) काकतुण्डः । ( ८ ) त्रिमणमानः ॥ १७७॥ श्यामत्वमात्मपितृघातकपातकं च, गौरीशविग्रहहुताशनसेवनाभिः । सारङ्गनाभिनिवहः प्रणिहन्तुकाम - स्तत्राऽऽजगाम किमु सेरयुगप्रमाणः ॥ १७८ ॥ ( १ ) कृष्णताम् । ( २ ) स्वस्य पितुः कस्तूरिकामृगस्य घातान्मारणादुत्पन्नं पापम् । (३) शिवशरीरस्य, “क्षितिजलपवनहुताशन-यजमानाकाशसोमसूर्याद्याः । अष्टौ शिवमूर्त्तय" इत्युक्तेः, वह्नेः परिचरणाभिर्वह्निप्रवेशैरित्यर्थः । ( ४ ) मृगनाभिनिकरः । ( ५ ) निवारयितुमिच्छुः । (५) संस्कृतिस्थाने । ( ६ ) समागतः । (७) सेरद्वयप्रमाणः ॥१७८॥ 'दिवं गतस्याऽपि 'विभोरमुष्य, श्लोकस्त्रैलोक्यामपि 'पोस्फुरीति । "विवक्षयेतीव पुरो' नराणा - मागात्रिंसेरीप्रमितः "सिताभ्रः ॥१७९॥ (१) स्वर्गम् । ( २ ) यातस्याऽपि । ( ३ ) श्रीहीरसूरे: । ( ४ ) यश:- सर्वदिग्गामुकम् । ( ५ ) जगत्त्रयेऽपि । ( ६ ) अतिशयेन स्फुरति । (७) वक्तुमिच्छया । (८) जनानामग्रे । ( ९ ) सेरत्रिकमितः । (१०) कर्पूर: ॥ १७९॥ 'ज्योतिः कुमारा इव तीर्थभर्तुः, 'प्रज्वाल्य पूर्वं ज्वलनं 'चितायाम् । सूरे: शरीरस्य शरीरिणस्ते, 'संस्कारमतन्वत "चन्दनाद्यैः ॥१८०॥ (१) अग्निकुमारदेवाः । (२) जिनस्य । ( ३ ) सन्धुष्य । (४) कृशानुम् । (५) दाघस्थाने । ( ६ ) हीरसूरिदेहस्य । ( ७ ) श्राद्धा: । ( ८ ) अग्निसंस्कारम् । (९) चक्रुः । (१०) चन्दनप्रमुखैर्द्रव्यैः ॥ १८० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426