Book Title: Hirsundaramahakavyam Part 2
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
३२०
श्री हीरसुन्दर' महाकाव्यम् निजकर्णेन । (१०) विप्रः ॥१६३॥
सौमङ्गलाद्या इव नाभिसूनो-र्वक्त्रं व्रतीन्दोरिह जीवतोऽस्य । 'विलोकयामश्च यथा कृतार्थाः, स्यामः सुरास्तत्त्वरितं 'चरन्तु ॥१६४॥
(१) भरतप्रमुखा इव । (२) ऋषभदेवस्य । (३) मुखम् । (४) सूरेः । (५) उन्नतनगरे । (६) प्राणान्बिभ्रतः । (७) भगवतः । (८) पश्यामः । (९) कृतकृत्याः । (१०) भवामः । (११) तस्मात्कारणात् । (१२) शीघ्रम् । (१३) प्रचलन्तु ॥१६४॥
एवं सुराणां वदतां तदानीं, क्षणादेदृश्यं तदभूद्विमानम् । सौदामिनीमण्डलमम्बुदाना-मिवाऽतिगर्जा 'सृजतां "गभीराम् ॥१६५॥
(१) अमुनाप्रकारेण । (२) कथयताम् । (३) देवानाम् । (४) तस्मिन्समये । (५) दृष्टेरगोचरम् । (६) जातम् । (७) विद्युद्वितानम् । (८) मेघानाम् । (९) गर्जारवम् । (१०) कुर्वताम् । (१०) मन्द्राम् ॥१६५॥
'श्रींहीरसूरिः 'श्रयति स्म 'शुक्ल-ध्यानं दधानः स सुधाशसौधम् । काङ्क्षन्महानन्दपुरे प्रयातुं, प्राक् तस्ये मार्गस्य दिदृक्षयेव ॥१६६॥
(१) श्रीहीरविजयसूरिः । (२) भजते स्म । (३) शुक्लध्यानं ध्यायन् । (४) देवगृहम् । (५) वाञ्छन् । (६) मोक्षनगरे । (७) गन्तुम् । (८) प्रथमम् । (९) मुक्तिपदव्याः । (१०) द्रष्टुमिच्छया ॥१६६॥
अस्तं गभस्तेरिव कोकलोकः, शोकाकुलो बाष्पजलाविलाक्षः । श्रुत्वा गुरोः स्वर्गमनं निशायां, जनवजो द्वीपपुरादुपागात् ॥१६७॥
(१) भानोः । (२) चक्रवाकव्रजः । (३) खेदमेदुरः । (४) अश्रुनीरैर्व्याप्तनयनः । (५) सूरेः । (६) परलोकगमनम् । (७) रात्रौ । (८) श्राद्धवर्गः । (९) द्वीपनगरात्तत्कालमेवाऽऽगतः ॥१६७॥
यारीसहस्रद्वयसङ्गहीत-कथीपकाख्यादिमदिव्यवस्त्रैः । श्राद्धा व्यधुर्मण्डपिकां मुनीन्दो-रिवाऽऽप्तभर्तुः शिबिकां महेन्द्राः ॥१८॥
(१) शलाकाकाराणां रजतमयानां ल्यारिकाणां-नाणकविशेषाणां विंशतिशत्या व्ययेनाऽऽनीतैः कथीपकानामवस्त्रविशेषास्तत्प्रमुखमनोज्ञवसनैः । (२) श्रावकाः । (३) चक्रुः। (४) 'माण्डवी' इति प्रसिद्धाम् । (५) जिनेन्द्रस्य । (६) याप्ययानमिव । (७) शक्राः ॥१६८॥
ते ल्यारिकाभित्रतिपस्य सार्द्ध-सहस्रयुग्मप्रमिताभिरङ्गम् ।
अपूपुजन्भक्तिभरोल्लसन्तो, “जिनेशितुर्मूर्तिमिव प्रसूनैः ॥१६९॥ 1. सूरिस्ततः संश्रयति स्म हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426