Book Title: Hirsundaramahakavyam Part 2
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 334
________________ सप्तदशः सर्गः ३२१ (१) द्वीपश्राद्धाः । (२) रूपकनाणकैः । (३) सूरेः । (४) पञ्चविंशतिशतप्रमाणैः । (५) शरीरम् । (६) पूजयन्ति स्म । (७) भक्तरतिशयेनोत्सुकीभवन्तः । (८) तीर्थकृतः । (९) प्रतिमाम् । (१०) कुसुमैः ॥१६९॥ नभोनभस्याविव 'निस्सरद्भिः, पयःप्रवाहैर्नयने 'वितन्वन् । यावज्जनो मण्डपिकाममुष्या-उलङ्कारयामास शरीरयष्ट्या ॥१७०॥ (१) श्रावणभाद्रपदाविव । (२) निष्पतद्भिः । (३) बाष्पपूरैः । ( ४ ) कुर्वन् । (५) यावदिति यस्मिन्समये । (६) श्राद्धवर्गः । (७) माण्डवीम् । (८) सूरेः । (९) शरीरयष्ट्या भूषयन्ति । मण्डपिकायां गुरुवपुः शाययति ॥१७०॥ 'विमानघण्टापटुनादसान्द्र-ध्वनत्सुघोषेव गभीररावा । घण्टावली तावदृश्यमाना-ऽप्यध्वानिताऽदिध्वनदंभ्रमार्गे ॥१७१॥ (१) सौधर्मस्वर्गसम्बन्धिनां द्वात्रिंशल्लक्षविमानानां घण्टानां प्रकटध्वनिभिर्बहलीभूतशब्दायमानसुघोषाघण्टेव । (२) मन्द्रशब्दा । (३) घण्टामालिका । (४) तस्मिन्नवसरे । (५) दृशोरगोचरा । (६) जनैरताड्यमानापि । (७) शब्दायते स्म । (८) गगनमार्गे ॥१७१॥ वाद्यौघमाद्यन्निनदैर्जिनस्ये-वोऽमुष्य 'निर्वाणमहं प्रणेतुम् ।। किर्माह्वयन्तस्त्रिंदशानशेषा-नादाय तां श्राद्धजनाः "प्रचेलुः ॥१७२॥ (१) वादित्रव्रजबहलीभवद्ध्वनिभिः । (२) तीर्थकृत इव । (३) सूरेः । (४) परलोकगमनमहोत्सवम् । (५) कर्तुम् । (६) आकारयन्त इव । (७) देवान् । (८) सर्वान् । (९) गृहीत्वा । (१०) मण्डपिकाम् । (११) प्रचलन्ति स्म ॥१७२॥ ध्वजव्रजैरुर्जितसान्ध्यरागो-पयुक्तवद्विष्णुपदं सृजन्तः । आदायतां मण्डपिकां मुनीन्दोः, संस्कारभूमीमनयजनास्ते ॥१७३॥ (१) पताकानिकरैः । (२) प्रबलप्रातःसायंतनसन्ध्यासम्बन्धिरक्तिम्ना कलितमिव । (३) गगनम् । (४) कुर्वन्तः । (५) गृहीत्वा । (६) श्मशानभुवम् । (७) प्रापयन्ति स्म । (८) ते श्राद्धलोकाः ॥१७३॥ 'महीन्दिरायाः शिरसीव नील-मणीप्रणीतातपवारणस्य । रसालसालस्य तलेऽखिलास्ते, स्वांसस्थलान्मण्डपिकाममुञ्चन् ॥१७४॥ (१) महालक्ष्म्याः । (२) मस्तके । (३) मरकतरत्ननिर्मितछत्रस्य । (४) सहकारतरोः । (५) अधोभूमौ । (६) निजस्कन्धप्रदेशात् । (७) मुमुक्षुः ॥१७४॥ संस्कारोपस्करमथ, तत्राऽऽनिन्युर्जना गतोत्साहाः । 'चन्दनदलिकादिममिव, गीर्वाणाः सार्वनिर्वाणे ॥१७५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426