Book Title: Hirsundaramahakavyam Part 2
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
३१५
सप्तदशः सर्गः 'सखीमिव स्वःशिवपद्मधाम्नो-निरीहतां 'मुग्धतया 'विहाय ।
दूतीमिवाँऽऽदत्य च “दुर्गतीनां, गृद्धि मयाऽऽदायि परिग्रहो यत् ॥१३८॥
(१) वयसीमिव । (२) स्वर्गापवर्गलक्ष्म्योः । (३) निस्पृहताम् । (४) मौग्ध्यात् । (५) त्यक्त्वा । (६) सन्देशहारिकामिव । (७) आदरपरीभूय । (८) दुष्टानां गतीनां नारकादीनाम् । (९) सर्वेषु वस्तुषु प्राप्तास्ते( प्राप्ते )षु काङ्क्षाम् । (१०) धनधान्यद्विपदचतुष्पदादिः । (११) गृहीतः-स्वीकृतः ॥१३८॥
'मरुद्रुमान्मेरुरिवेन्द्रियाणि, 'देहीव बाणानि[व] पञ्चबाणः । मुखानिवाऽनङ्गरिपुश्च सम्यङ्-नाऽधारयं पञ्चमहाव्रतान्यत् ॥१३९॥
(१) कल्पवृक्षान् । (२) सुरगिरिः । (३) मनुष्य इव । (४) कामः । (५) शरान् । (६) वक्त्राणि । (७) ईश्वरः । (८) मनोवाक्कायैः त्रिकरणशुद्ध्या । (९) न धृतवान् । (१०) व्रतशब्दः पुंनपुंसके ॥१३९॥
'निशाचरेणेव निशाशनं य-न्मया कथञ्चित्प॑विधीयते [स्म| 'कौसीद्यमाद्यन्मनसेव किञ्चि-च्छैथिल्यमालम्ब्यत यत्क्रियासु ॥१४०॥
(१) रात्रिचारिणा राक्षसेनेव । (२) रात्रिभोजनम् । (३) केनाऽपि मिथ्यात्वाज्ञानादिप्रकारेण । (४) कृतमाचरितम् । (५) आलस्येनोन्मत्तीभवच्चित्तेन । (६) शिथिलता -किञ्चित्कृतमकृतं करिष्यते वाऽग्रे इत्याद्यम् । (७) आश्रितम् । (८) अनुष्ठानेषु ॥१४०॥
'प्रमादभाजा नियमा मया ये, 'बभञ्जिरे भ्रान्तिभृता भवेषु ।
छायाद्रुमा गण्डगलन्मदान्धं-भविष्णुनेवोद्भुरसिन्धुरेण ॥१४१॥ - (१) प्रमत्तत्वभाजा । (२) अभिग्रहाः । (३) भग्नाः । ( ४ ) भ्रमणीकारिणः, संसारेषुनानाभव-परंपरासु कर्मवैचित्र्याभ्राम्यतेत्यर्थः । (५) छाययोपलक्षितास्तरवो, येषां छाया कदाचिदपि परावृत्तिं नोपेति । अथवा पत्रपल्लवपुष्पफलप्रमुखशोभायुताः छायावृक्षाः । (६) कपोलयो निष्पन्नदानवारिभिरन्धं भवनशीलेन । (७) उत्कटगजेन ॥१४१॥
अपेक्षया पञ्चमहाव्रतानां, 'स्वर्भूधराणामिव भूधरेषु । 'अणुष्व॑हर्बन्धुमितव्रतेषु, मया विराद्धं “गृहमेधिना यत् ॥१४२॥
(१) सर्वविरतिव्रतानाम् । (२) अपेक्षया-महाव्रतेषु तु सर्वथैव सर्ववस्तुभ्यो विरमणं तस्मात्तानपेक्ष्य । (३) मेरूणामिव । (४) अन्यपर्वतेषु । (५) अणुषु-हस्वेषु । सर्वत्राऽपि देशतो विरमणत्वात् । (६) सूर्यप्रमितेषु-द्वादशसु । (७) भङ्गातिचारादिकरणेन । (८) गृहमेधिना सता ॥१४२॥
1. ०तीनामृद्धि हीमु० । 2. प्राणीव हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426