SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २८२ श्री हीरसुन्दर' महाकाव्यम् निववृते प्रमदेन्दिरयान्वितः, स 'जिनगर्भगृहान्तरतस्ततः । चतुरिकोदरतोऽभिनवोढया, वर इवाऽमृतदीधितिवक्त्रया ॥११०॥' (१) निवृत्तः । निर्गतः । (२) हर्षलक्ष्या सहितः । (३) सूरिः । (४) ऋषभदेवस्य गर्भालयात् । (५) 'चउरी 'ति लोकप्रसिद्धं परिणयनस्थानं, तन्मध्यात् । (६) नवपरिणीतया। (७) स्त्रिया ॥११०॥ 'अदीक्षयत्तत्र स कांश्चैिदिभ्य-तनूभवान्गौतमवद्गणीन्द्रः । कांश्चित्ककुश्रेष्ठिमुखाङ्गभाज-स्तुर्यव्रतोच्चारमँकारयच्च ॥१११॥ (१) दीक्षां दत्ते स्म । (२) सूरिः । (३) व्यवहारिपुत्रान् । ( ४) गौतमस्वामीव । (५) पत्तनसत्कककुनामा श्रेष्ठी तत्प्रमुखान्जनान् । (६) ब्रह्मव्रतोच्चारम् । (७) कारयति स्म ॥१११॥ 'पुण्डरीकान्तिकस्थास्नु-रथोद्दिश्य वशी 'विशः । 'श्रीशत्रुञ्जयमाहात्म्यं, वृषाङ्कवदभाषत ॥११२॥ (१) पुण्डरीकप्रतिमासत्कदेवकुलिकाबहिरि स्थितः । (२) सूरिः । (३) जनानुद्दिश्य । (४) शत्रुञ्जयपर्वतमहिमानम् । (५) ऋषभदेव इव ॥११२॥ यत्तीर्थेऽन्यत्र शुद्धाध्यवसितिविशदध्यानतः पूर्वकोट्या, प्राणी बध्नाति "पुण्यं भवति भवभृतां तत्क्षणेनाऽप्यमुष्मिन् । भेतव्यं पातकेभ्यो भुवि न भविजनैर्भेद्यनिर्भेददक्षे, क्ष्माभृत्यस्मिन्र्शरण्ये पुनरहिमरुचीवाऽन्धकारोत्करेभ्यः ॥११३॥ (१) अन्यस्मिन् तीर्थे । (२) निष्पापपरिणामेन कृत्वा यच्छुक्लध्यानं तस्मात् । (३) पूर्वाणां कोट्या । (४) जन्तुः । (५) सत्कर्म । (६) उपार्जयति । (७) तत्पुण्यम् । (८) भविनाम् । (९) क्षणमात्रशुभध्यानेन । (१०) अत्र शत्रुञ्जये भवति । (११) पातककारकैः पापेभ्यो न भीतिरानेतव्या । (१२) भेद्यस्य-दुष्कर्मादेः भेदने-विदारणे खण्डीकरणे निपुणे । (१३) अस्मिन्श्रीशत्रुञ्जयशैले सति । (१४) शरणागतवत्सले । (१५) सूर्ये । (१६) स[म]स्ततमोभरेभ्य इव ॥११३॥ अहंद्देशनवेश्मनीव सततं सन्त्यज्यतेऽस्मिन्मिथः, पारीन्द्रद्विरदादिजन्मिनिवहैराँजन्मविद्वेषिता । राज्ये नीतिमतः 'क्षितेरधिपते ता इवोर्वीस्पृशां, १२सर्वे सन्त्यैकतोभया यदचलोत्सले पुनः स्थायुकाः ॥११४॥ (१) समवसरणे इव । (२) निरन्तरम् । (३) मुच्यन्ते । (४) पर्वते । (५) परस्परम् । (६) सिंहगजप्रमुखसत्वनिकरैः । (७) अवतारमुत्पत्तिं मर्यादीकृत्य विरोधिता-वैरम् । (८) न्यायभाजः । (९) नृपस्य । (१०) जनानाम् । (११) गणा इव । (१२) समस्ताः । (१३) 1. अतः परं हीमु०पुस्तकान्तर्गत: ११३तमः श्लोकोऽत्र नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy