SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः २८३ वर्त्तन्ते । (१४) न विद्यते कुतश्चित्कस्मादपि भयं येषाम् । (१५) यस्य - शत्रुञ्जयस्याऽङ्के । (१६) वसनशीलाः ॥ ११४ ॥ 'स्वर्णोदयार्बुदब्रह्म-गिर्याद्यष्टशतान्मितैः । 'सुतैरिवत्तुङ्गशृङ्गैः, "परितः 'परिवारितः ॥११५॥ (१) स्वर्गगिरि-उदयगिरि - ब्रह्मगिरि- एतत्प्रमुखाण्यष्टाधिकशतप्रमितैः । ( २ ) पुत्रैरिव । (३) गगनावगाहिभिः शिखरै: । ( ४ ) सर्वतः । (५) परिवृतः ॥ ११५ ॥ तीर्थमास्ते न 'विश्वेऽप्यदः सन्निभं विश्वकर्त्रेति रेखा किंमेषा कृता । स्वर्गिणां निम्नगावत्पुनानां जनान्, यत्रं शत्रुञ्जये भाति कल्लोलिनी ॥ ११६॥ (१) त्रैलोक्येऽपि । ( २ ) अस्य तुल्यम् । (३) विधात्रा । ( ४ ) इति हेतो: । ( ५ ) प्रत्यक्षा रेखा । ( ६ ) निर्मिता इव । (७) गङ्गेव । ( ८ ) जनान्पवित्रीकुर्वाणा । ( ९ ) विमलगिरौ । (१०) शत्रुञ्जयनाम्नी नदी । ( ११ ) शोभते ॥ ११६ ॥ " 'केवलज्ञानितीर्थेशतीर्थे 'पुरा 'स्त्रात्रनिर्मित्सयेशानजम्भद्विषा । “सिद्धसिन्धोर्मुर्दाऽऽनायि यस्मिन्नसौ 'जह्नुनेव प्रवाहो नगेऽष्टापदे ॥११७॥ (१) गतचतुर्विंशत्यां प्रथमतीर्थकृतः केवलज्ञानिनाम्नो जिनस्य तीर्थे वारके विद्यमाने वा । (२) पूर्वम् । ( ३ ) शत्रुञ्जयपर्वते प्रासादे स्थापिते स्नात्रकरणेच्छया । ( ४ ) ईशाननाम्ना द्वितीयसुरलोकाधिपेन । (५) गङ्गामध्यात् । ( ६ ) आनीता । ( ७ ) हर्षेण । ( ८ ) सगरचक्रिसुतेन । (९) गङ्गाप्रवाहः । (१०) अष्टापदगिरौ ॥११७॥ 'रसकृपीदिव्यौषधि- सुवर्णमणिरत्नभूमिरेष गिरिः । 'शिव इव सकलाः सिद्धी:, पुनर्दधानः श्रियं श्रयते ॥११८॥ ( १ ) रसकूपिका तथा दिव्यप्रभावा औषधयः स्वर्णरजतकारिण्यः, अष्टमहाभयस्तम्भिन्यः, रोगविनाशिन्यश्च, स्वर्ण - हेम - मणयश्चन्द्रकान्ताद्या रत्ना | नि] कर्केतनादीनि तेषां भूमिः स्थानम् । (२) ईश्वर इव । ( ३ ) सकला अणिमाद्याः सिद्धी: । ( ४ ) धारयन् । अत्र स्थितानामयं गिरिः सर्वाः सिद्धीविधर्ते इत्यर्थः ॥ ११८ ॥ सूर्योद्यानं सुरेन्दोर्दिशि विपिनमिव स्वःसदां भाति यस्मिन् स्वैर्गोद्यानं त्वपाच्यां दिशि 'गिरिकमलानीलचेलं किमेतत् । चन्द्रोद्यानं प्रतीच्यां विविधसुमभरैर्भूषितं 'भूषणैः किं, Jain Education International लक्ष्मीलीलाविलासं "धनददिशि पुनः किं तदीयं "निकुञ्जम् ॥११९॥ (१) सूर्योद्यानं प्राच्यां दिशि । (२) नन्दनवनमिव । ( ३ ) स्वर्गोद्यानं नाम वनम् । (४) दक्षिणस्यां दिशि । (५) शैललक्ष्म्या नीलवस्त्रमिव । ( ६ ) चन्द्रोद्यानं प्रतीच्यां दिशि । (७) नानाकुसुमैः । ( ८ ) शोभितम् । ( ९ ) आभरणैरिव । (१०) लक्ष्मीलीलाविलासं वनम् । (११) उत्तरस्यां दिशि । ( १२ ) चैत्ररथं वनमिव । इदं शत्रुञ्जयमाहात्म्यानुसारि, अधुना तु For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy