SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः 'सुधारस इव प्रभो ! 'सकलजन्तुजीवातुका, "भवाद्भवभृतोऽम्बुधेर्जगति "पोतवर्त्तीरयन् ॥१०६॥ (१) अमृतं - मोक्षो जलं च तस्य तेन वा शोभाभाजनः । (२) मेघ इव । (३) गम्भीरशब्दः । ( ४ ) निर्गतमञ्जनं रागद्वेषोपलेपो यस्य तत्त्वेन । ( ५ ) प्रकटित: । ( ६ ) शङ्ख इव । "निवेश्य दध्मौ जलजं कुमार" इति रघुवंशकाव्ये । (७) निर्मलमन: (नाः ) श्वेतश्च । ( ८ ) पीयूष - पान इव । ( ९ ) समस्तजीवजीवनौषधम् । (१०) भविकान् । ( ११ ) संसारात् । ( १२ ) समुद्रात् । (१३) यानपात्र इव । (१४) निस्तारयन्, पारं प्रापयन् ॥ १०६ ॥ जयेश व 'काभिच्छ्रितशिवश्च मृत्युञ्जयो, वहेन्निरवलम्बतां "गगनवत्पदं ज्योतिषाम् । “युगादिसमये पुर्नर्जगदशेषसृष्टिं सृजन्, 'सरोजतनुजन्मवकै लमराललीलागतिः ॥१०७॥ (१) शम्भुरिव । ( २ ) कालस्य कलेर्दैत्यस्य वा भेदकः । ( ३ ) श्रिता मुक्ति: पार्वती च येन । ( ४ ) मृत्युं जयतीति पराभवतीति । ( ५ ) निराश्रयताम् । (६) नभ इव । ( ७ ) तेजसां ग्रहनक्षत्रतारकाणां च । (८) तृतीयारकपर्यन्ते । ( ९ ) जगतां जगज्जनानां सृष्टि-उग्रभोगादिकुलस्थापनां शिल्पानां शिल्पिनां च शिक्षां गृह-चैत्य-प्राकार- यान- नगर - पुर-ग्रामादिनिर्माणं व्यवहारस्थिति-पाणिग्रहण- राज्यपालनादिकर्मनिर्माणा [ दि] व्यवहारम् । (१०) धातेव । ( ११ ) प्रधानहंसवल्लीलया गमनं यस्य । हंसेन गमनं यस्य ॥ १०७ ॥ 'शरत्समयपङ्कजाकर इव प्रसन्नाशयः, 'कुशेशयपलाशवन्निरुपलेपभावं भजन् । 'प्रमद्वरपदं दधन्न च कदापि भारुण्डव १० द्विशेषक इवाऽलिकं र्विमलभूधरं भूषयन् ॥१०८॥ २८१ (१) शरत्कालसर इव । (२) प्रसन्नमनाविलं आशयो-हृदयं मध्यं च यस्य । (३) कमलदलवत् । ( ४ ) लेपरहित: । ( ५ ) प्रमत्तताम् । (६) भारुण्डपक्षीव । (७) तिलक इव । ( ८ ) भालम् । ( ९ ) शत्रुञ्जयपर्वतम् । (१०) अलङ्कारयन् ॥१०८॥ इत्यभिष्टुत्य सूरीश्वरः श्रीजिनं, 'भालविन्यस्तहस्तद्वयाम्भोरुहः । इष्यशाखी फलाप्तेरिवाऽऽमोदवान्, प्राणमद्भूतलालम्बिमौलिस्थलः ॥१०९॥ Jain Education International (१) स्तुत्वा । (२) ललाटे स्थापितं पाणियुगलमेव कमलं येन । ( ३ ) वसन्ततरुरिव । (४) फलस्य यात्राकरणलक्षणस्य सस्य च लाभात् । ( ५ ) आमोदो - हर्षः परिमलश्च तद्युक्तः । (६) नमति स्म । (७) भूमण्डलाश्रयशीलं मस्तकं यस्य ॥ १०९॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy