Book Title: Hirsundaramahakavyam Part 2
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 300
________________ २८७ षोडशः सर्गः (१) शाश्वता मन्दरादयः पर्वतास्तद्वत् । (२) न विद्यते आगमिष्यत्काले कदाप्यन्तो यस्य, तावन्तं कालं यावत्स्थायुकः-स्थास्त्रः । (३) कालक्रमात्-समयपरिपाट्या । (४) चन्द्र इव । (५) वृद्धि क्षयं च ॥१३२॥ 'तालध्वजढङ्काभिध-कदम्बलौहित्यरैवताद्यचलाः । विलसन्महिमानोऽमी, यत्प्रतिकाया इवाऽऽभान्ति ॥१३३॥ (१) ऐते पञ्चाऽपि शैलाः शत्रुञ्जयस्य मुख्यशि[ख]राणि । (२) शत्रुञ्जयसदृशमाहात्म्याः । (३) प्रतिबिम्बानीव ॥१३३॥ 'माहात्म्यमेतस्य समग्रमेकै-कस्याऽपि शृङ्गस्य कदाऽपि वक्तुम् । प्रभुर्भवेत्कोऽपि तदाप्त एव, तरीतुमब्धेरिव वारि पोतः ॥१३४॥ (१) महिमानम् । (२) शत्रुञ्जयस्य । (३) एकस्याऽपि शिखरस्य । (४) कोऽपि वक्तुं न प्र[भ]वेत् । यदि कदाचिन्महिमानं वक्तुं समर्थीभवेत्स तीर्थकृदेव, नान्यः । (५) जलधिजलं तरीतुं कोऽपि नालम् । यदि समर्थस्तदा यानपात्रम् ॥१३४॥ तदत्र प्राप्यतेऽनल्पं, यद्वस्तु क्वापि नाऽऽप्यते । मेरौ न सन्त्यदभ्रां किं, दुष्प्रापाः स्वर्द्वमा मरौ ॥१३५॥ (१) तत्तत्प्रसिद्धमौषधी-रत्न-रसकूपिकादि । (२) बहु-पदे पदे । (३) अन्यत्र । (४) यन्नाम्नाऽपि न श्रूयते । (५) मेरुगिरौ । (६) किं कल्पद्रुमा बहवो न सन्ति । (७) ते मरुस्थल्यां नाम्नाऽपि कदाचित् श्रूयते न हि ॥१३५॥। षष्ठः सप्तभिरष्टमाष्टमयुतैर्यस्मिन्कृतैर्निजलै स्तार्तीयीकतया मिते 'किल “भवे प्राप्नोति सिद्धि सधीः । यस्मिन्नार्षभिकारितां मणिमयी मूर्ति जिनेन्दो म स्कुर्वन्स्वर्णगुहागौमपि भवेदेकावतारी भवे ॥१३६॥ (१) उपवसनद्विकैः । (२) सप्तसङ्ख्यैः । (३) अष्टमेनोपवासत्रिकेण सहितैः । (४) पर्वते । (५) पानीयरहितैश्चतुर्विधाहारप्रत्याख्या[न]युतैः । (६) त्रयाणां सङ्ख्या पूरणस्तृतीयस्तृतीय एव-तार्तीयीकः । तीयादिकण् स्वार्थे वा वक्तव्यः, तस्य भावस्तार्तीयीकता, तया । किल-इति पूर्वा[चार्यपरम्परया बृहद्ग्रन्थवाक्यैः । जनने-तृतीये भवे इत्यर्थः । (७) गिरौ । (८) भरतचक्रिकारिताम् । (९) रत्नमयीम् । (१०) ऋषभप्रतिमाम् । (११) प्राणमन् । (१२) स्वर्णनाम्न्यां गिरिकन्दरायां तिष्ठन्तीम् । (१३) पुनरन्यार्थे । (१४) एकमेव जन्म यस्य, तादृग्भवेत् ॥१३६॥ 'अत्रोऽनन्तजिना अनन्तमुनिभिः 'सिद्धा विशुद्धाशया, ध्यानैर्वह्निभिरिन्धनप्रकरवनिर्दह्य कर्मव्रजम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426