Book Title: Hirsundaramahakavyam Part 2
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 323
________________ ३१० श्री हीरसुन्दर' महाकाव्यम् (१) श्रीहीरसूरेर्वचनात् । (२) अनेके । (३) प्रासादाः । (४) सञ्जाताः । (५) गृहचैत्यैः सहिताः । गृहचैत्यान्यपि बहून्यासन् । (६) विश्वकर्मणा । (७) भूमण्डले । (८) वासं कर्तुम् । (९) अपवर्गस्वर्गलक्ष्मीभिः । (१०) निर्मापिताः । (११) क्रीडानिवासाः ॥११०॥ पञ्चाशदर्हत्प्रतिमाप्रतिष्ठां, प्रभुः पृथिव्यामनुतिष्ठति स्म । दिशेश्चतस्रोऽप्यपुनार्द्विहारैः, प्रभाप्रसारिव भानुमाली ॥१११॥ (१) पञ्चाशत्सङ्ख्याकाः । (२) जिनप्रतिमानां प्रतिष्ठा महामहोत्सवपुरस्सराः । (३) भूमौ-गुर्जर-सौराष्ट्र-मेदपाद-मरु-मेवातमण्डलादिषु । (४) करोति स्म । (५) पूर्वा-दक्षिणापश्चिमा-उत्तरालक्षणाश्चतस्रोऽपि दिशः । (६) स्वविहरणैः । (७) पवित्रीकरोति स्म । (८) कान्तिप्रचारैः । (९) भास्वानिव ॥१११॥ यस्मिन्युनाने 'भुवमर्बुदाद्रि-सम्मेतसिद्धाचलरैवतेषु । सङ्गाधिपाः पाण्डववशतानि, त्रीणि त्रिकेणाऽभ्यदिकान्यभूवन् ॥११२॥ (१) श्रीहीरविजयसूरीन्द्रे । (२) पवित्रीकुर्वाणे । (३) पृथिवीम् । (४) अर्बुदाचल - सम्मेतशैल-शत्रुञ्जय-रैवताचलप्रमुखेषु तीर्थेषु । (५) सङ्घपतयः । (६) पाण्डुनृपपुत्रा इव । (७) व्युत्तरा त्रिशती । (८) सञ्जाता ॥११२॥ आत्मा भृतो येन 'जिनेश्वराद्रि-तीर्थादियात्रोद्भवपूर्णपुण्यैः । प्राक्शृङ्गिशृङ्गागमनोद्गतांशु-भरैरिवाऽम्भोरुहिणीवरेण ॥११३॥ (१) निजात्मा । (२) सम्पूरितः । (३) सूरिणा । (४) जिनेश्वराद्रिः शत्रुञ्जयशैलस्तत्प्रमुखतीर्थानां यात्रोद्भूतानां सुकृतैः । “पञ्चाशदादौ किल मूलभूमे-दशोर्ध्वभूमेरपि विस्तरोऽस्य । उच्चत्वमष्टैव तु योजनानि मानं वदन्तीह जिनेश्वराद्रेः ॥" इति नगरपुराणोक्तमन्तर्वाच्येष्वस्तीति । (५) पूर्वाचलस्य शिखरे समागमनात्प्रकटीभूतकिरणनिकरैः । (६) भास्करेण ॥११३॥ 'धात्री पवित्री सृजतोऽस्य पाद-न्यासे दुकूलान्यध्रियन्त भव्यैः । 'तीर्थाधिराजस्य चतुर्निकाय-सुरैरिव "स्वर्णसरोरुहाणि ॥११४॥ (१) भूमीम् । (२) पावनीम् । (३) कुर्वतः । ( ४ ) सूरेः । पादचारेण चरत इत्यर्थः । (५) चरणयुगस्थापनस्थाने । (६) क्षौमाणि । (७) स्थाप्यन्ते स्म । (८) श्राद्धवर्गः । (९) जिनपतेरिव । (१०) भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकदेवैः । (११) कनककमलानि ॥११४॥ स्तम्भादितीर्थे 'जलदागमेऽस्मि-स्थिते कदाचिद्भविकव्रजेन । कोटिंर्व्ययेऽसृज्यत टङ्ककानां, श्रीविक्रमाम्भोरुहबन्धुनेव ॥११५॥ (१) स्तम्भतीर्थे । (२) वर्षाकाले । चतुर्मासीमधितस्थुषि । (३) तस्मिन् भगवति । (४) कस्यामपि चतुर्मास्याम् । (५) तत्रत्यश्राद्धवर्गेण । (६) टङ्ककानामेककोटिः । (७) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426