________________
३१०
श्री हीरसुन्दर' महाकाव्यम् (१) श्रीहीरसूरेर्वचनात् । (२) अनेके । (३) प्रासादाः । (४) सञ्जाताः । (५) गृहचैत्यैः सहिताः । गृहचैत्यान्यपि बहून्यासन् । (६) विश्वकर्मणा । (७) भूमण्डले । (८) वासं कर्तुम् । (९) अपवर्गस्वर्गलक्ष्मीभिः । (१०) निर्मापिताः । (११) क्रीडानिवासाः ॥११०॥
पञ्चाशदर्हत्प्रतिमाप्रतिष्ठां, प्रभुः पृथिव्यामनुतिष्ठति स्म । दिशेश्चतस्रोऽप्यपुनार्द्विहारैः, प्रभाप्रसारिव भानुमाली ॥१११॥
(१) पञ्चाशत्सङ्ख्याकाः । (२) जिनप्रतिमानां प्रतिष्ठा महामहोत्सवपुरस्सराः । (३) भूमौ-गुर्जर-सौराष्ट्र-मेदपाद-मरु-मेवातमण्डलादिषु । (४) करोति स्म । (५) पूर्वा-दक्षिणापश्चिमा-उत्तरालक्षणाश्चतस्रोऽपि दिशः । (६) स्वविहरणैः । (७) पवित्रीकरोति स्म । (८) कान्तिप्रचारैः । (९) भास्वानिव ॥१११॥
यस्मिन्युनाने 'भुवमर्बुदाद्रि-सम्मेतसिद्धाचलरैवतेषु । सङ्गाधिपाः पाण्डववशतानि, त्रीणि त्रिकेणाऽभ्यदिकान्यभूवन् ॥११२॥
(१) श्रीहीरविजयसूरीन्द्रे । (२) पवित्रीकुर्वाणे । (३) पृथिवीम् । (४) अर्बुदाचल - सम्मेतशैल-शत्रुञ्जय-रैवताचलप्रमुखेषु तीर्थेषु । (५) सङ्घपतयः । (६) पाण्डुनृपपुत्रा इव । (७) व्युत्तरा त्रिशती । (८) सञ्जाता ॥११२॥
आत्मा भृतो येन 'जिनेश्वराद्रि-तीर्थादियात्रोद्भवपूर्णपुण्यैः । प्राक्शृङ्गिशृङ्गागमनोद्गतांशु-भरैरिवाऽम्भोरुहिणीवरेण ॥११३॥
(१) निजात्मा । (२) सम्पूरितः । (३) सूरिणा । (४) जिनेश्वराद्रिः शत्रुञ्जयशैलस्तत्प्रमुखतीर्थानां यात्रोद्भूतानां सुकृतैः । “पञ्चाशदादौ किल मूलभूमे-दशोर्ध्वभूमेरपि विस्तरोऽस्य । उच्चत्वमष्टैव तु योजनानि मानं वदन्तीह जिनेश्वराद्रेः ॥" इति नगरपुराणोक्तमन्तर्वाच्येष्वस्तीति । (५) पूर्वाचलस्य शिखरे समागमनात्प्रकटीभूतकिरणनिकरैः । (६) भास्करेण ॥११३॥
'धात्री पवित्री सृजतोऽस्य पाद-न्यासे दुकूलान्यध्रियन्त भव्यैः । 'तीर्थाधिराजस्य चतुर्निकाय-सुरैरिव "स्वर्णसरोरुहाणि ॥११४॥
(१) भूमीम् । (२) पावनीम् । (३) कुर्वतः । ( ४ ) सूरेः । पादचारेण चरत इत्यर्थः । (५) चरणयुगस्थापनस्थाने । (६) क्षौमाणि । (७) स्थाप्यन्ते स्म । (८) श्राद्धवर्गः । (९) जिनपतेरिव । (१०) भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकदेवैः । (११) कनककमलानि ॥११४॥
स्तम्भादितीर्थे 'जलदागमेऽस्मि-स्थिते कदाचिद्भविकव्रजेन ।
कोटिंर्व्ययेऽसृज्यत टङ्ककानां, श्रीविक्रमाम्भोरुहबन्धुनेव ॥११५॥
(१) स्तम्भतीर्थे । (२) वर्षाकाले । चतुर्मासीमधितस्थुषि । (३) तस्मिन् भगवति । (४) कस्यामपि चतुर्मास्याम् । (५) तत्रत्यश्राद्धवर्गेण । (६) टङ्ककानामेककोटिः । (७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org