SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ३०९ सप्तदशः सर्गः 'ग्रन्थावली निर्मितवान्विशुद्धां, 'निजां मनोवृत्तिमिव व्रतीन्द्रः । अदीक्षयद्यः शतशो वशीशः, 'शिष्यान्स्वंशिष्यीकृतशक्रसूरिः ॥१०५॥ (१) शास्त्रश्रेणीम् । (२) शोधयति स्म । (३) यथा निजचित्तवृत्तिविशुद्धा कृताऽस्ति । (४) प्रव्राजयति स्म । (५) शतसङ्ख्याकान् । (६) विनेयान् । (७) विद्यया कृत्वा स्वान्तेवासीकृतबृहस्पतिः ॥१०५॥ यत्पण्डिताः सार्द्धशतं बभूवः, सम्प्राप्तसिद्धान्तपयोधिपाराः । 'दिवेय॑यैकं धिषणं दधत्या, वागीश्वराः किं विधृता धरित्र्या ॥१०६॥ (१) यस्य प्रभोः पण्डितपदधारिणः । (२) एकपञ्चाशदुत्तरं शतम् । (३) सञ्जाताः । (४) अधिगतामसागरपाराः । (५) स्वर्गेण सममीर्ण्यया । (६) एकमेव वाचस्पतिम् । (७) बिभ्राणया । (८) बृहस्पतयः पण्डिताश्च । (९) धारिताः । (१०) भुवा ॥१०६॥ 'सप्ताऽभवन्वाचकवारणेन्द्रा, यस्योल्लसद्वाग्लहरीविलासाः । गाम्भीर्यभाजो गुणरत्नपूर्णा-स्तरङ्गिणीनामिर्वं जीवितेशाः ॥१०७॥ (१) सप्तसङ्ख्याकाः । (२) उपाध्यायकुञ्जराः । (३) स्फुरन्तो वाचामेव कल्लोलानां विभ्रमा वैचित्र्यो वा येषाम् । (४) गम्भीरभावं भजन्तः । (५) गुणा एव मणयस्तैः सम्पूरिताः । (६) समुद्रा इव ॥१०७॥ क्षमां दधानस्य च गौरिमाणं, पदाब्जभृङ्गायितचक्रिणश्च । द्वे यस्य जाते यतिनां सहस्त्रे, 'विलोचनानामिव भोगिभर्तुः ॥१०८॥ (१) क्षान्तिमुपशमं भुवं च । (२) पीतिमानं श्वेतिमानं च । (३) चरणकमले भ्रमरा इवाऽऽचरिता महाराजानः सर्पाश्च यस्य । (४) साधूनाम् । (५) नयनानाम् । (६) शेषनागस्य । (७) यस्य गच्छे साधुसहस्रद्वयमासीदिति ॥१०८॥ व्रजे यतीनां 'विजयाद्यसेन-प्रभोर्ददौ 'सूरिपदं य एकम् । नक्षत्रताराग्रहमण्डलेऽपि, 'विधा यथा राजपदं सुधांशोः ॥१०९॥ (१) प्रकरे । (२) मुनीनाम् । (३) श्रीविजयसेनगुरोः । (४) आचार्यपदम् । (५) एकमेव । (६) दत्ते स्म । (७) नक्षत्राणां ताराणां ग्रहाणां कदम्बकेऽपि । (८) विधाता । (९) राज इति पदप्रतिष्ठां विधोरेव दत्तवान्नान्यस्य ॥१०९॥ यस्योपदेशाद्वेहवो 'विहाराः, संजज्ञिरे मन्दिरचैत्ययुक्ताः । त्वष्ट्रा क्षितौ वस्तुमिवोऽमृतस्व:-श्रीभिर्व्यधाप्यन्त 'विलाससौधाः ॥११०॥ 1. अतः परं हीमु०पुस्तकस्थः १११तमः श्लोकोऽत्र नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy