Book Title: Hammirayan
Author(s): Bhanvarlal Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner

View full book text
Previous | Next

Page 206
________________ परिशिष्ट (३) - जीवनाथं कुलं त्यक्त्वा, योऽति दूरतरं व्रजेत् । लोकान्तर गतस्येव , किं तस्य जीवितेन वै ॥२॥ तदिहैव दयावीरं हम्मीरदेवं समाश्रित्य तिष्ठामीति परामृश्य स यवनो महिमसाहि हम्मीरदेव मुपागम्याह । महिमसाहिरुवाच । देव, विनाऽपराधं हन्तुमुद्यतस्य स्वामिनस्वासेनाहं त्वां शरणमागतोऽस्मि । यदि मां रक्षितु शक्नौषि तर्हि विश्वासं देहि । न चेदितोऽप्यन्यत्र गच्छामि। राजोवाच। मम शरणागतं त्वां यमोऽप मयि जीवति पराभवितु न शक्नोति । तदभयं तिष्ठ। ततस्तस्य राज्ञो वचनेन स यवनस्तस्मिन् रणस्तम्भनाम्नि दुर्गे निश्शंक मुवास । क्रमेण तमदीनराजस्तत्रावस्थितं विदित्वा परम सामर्षः करि तुरग पदातिपदाघातैर्धरित्री चालयन् कोलाहलैर्दिशो मुखरयन् कियद्भि रपि वासरै लंधित वर्मादुर्गद्वार मागत्य शरासारैः प्रलय धनवर्ष दर्शयामास । हम्मीरदेवोऽपि परिखा गम्भीर चतुर्मेखलं कुन्तदन्तुरित प्राकार शेखरं पताका प्रबोधित द्वारश्रियं दुर्ग कृत्वा ज्याघात कर्णकटुकै बर्बाणैर्गगगन मन्धीकृतवान् । प्रथम युद्धान्तरं अदीनराजेन हम्मीरदेवम्प्रति दूतः प्रहितः। दूत उवाच। राजन् हन्मीरदेव, श्रीमान् अदीनराजस्त्वामादिशति यन्ममापथ्य कारिणं महिमसाहिं परित्यज्य देहि । यद्येनं न ददासि तदा श्वस्तने प्रभाते तव दुर्ग खुराघातैश्चूर्णवशेषं कृत्वामहिमसाहिना सह त्वामन्तक पुरं नेष्यामि। हम्मीरदेव उवाच । रे दूत, त्वमबध्योऽसि ततः किं करवाणि। अस्योत्तरं तव स्वामिने खङ्गधाराभिरेव दास्यामि न वचोभिः । ममशरणागतं यमोऽपि वीक्षितु न शक्नोति किम्पुनरदीन Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242